Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 211
________________ जइ - जीयकप्पो प्रतिलेखनामुद्वर्त्तनादिकं च करोति । अथ ग्लानः ततः तस्याचार्योऽन्यो वा साधुर्भक्तपानाद्युपनयति । प्रतिलेखनामुद्वर्तनादिकं च करोति । सूत्रार्थेषु चाचार्योऽन्यो वा तस्य पृच्छायामुत्तरमपि ददाति । एवमेतत्संक्षेपतः पाराञ्चिकं भणितम् ।। २९७ ।। पुनरनवस्थाप्यपाराञ्चिकयोर्विशेषस्वरूपमाह अणवट्टप्पो तवसा तवपारंची अ दो वि वुच्छिन्ना । चउद्दसपुव्वधरंभि धरंति सेसा उ जा तित्थं । । २९८ । । व्याख्या - तपोऽनवस्थाप्यस्तपः पाराश्चिकश्च चतुर्दशपूर्वधरे श्री भद्रबाहुस्वामिनि द्वावपि व्यवच्छिन्नौ । शेषास्तु लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिका यावत् तीर्थं धरन्ति अनुव्रजन्ति भवन्तीत्यर्थः ।। २९८ ।। अथ साम्प्रतं केषां साधूनां कियन्ति प्रायश्चित्तानि भवन्तीति गाथाद्वयेन दर्शयन्नाह— सामाइअसंजयाणं पच्छित्ता छेयमूलरहिअट्ठा । थेराण जिणाणं पुण तवअंतं छव्विहं होइ । । २९९ ।। व्याख्या - सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति । जिनानां जिनकल्पिकानां पुनः सामायिकसंयतानां तपः पर्यन्तं षड्विधं प्रायश्चित्तं भवति ।। २९९।। छेओवट्ठावणिए पायच्छित्ता हवंति सव्वे वि । थेराण जिणाणं पुण मूलंत अट्टहा होइ ।। ३०० ।। व्याख्या - छेदोपस्थापनीये संयमे वर्त्तमानानां स्थविराणां सर्वाण्यपि प्रायश्चित्तानि भवन्ति । जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा भवति । एते ( २९९-३०० द्वे) गाथे दसविहमालोअणे' त्यादिगाथावृत्तौ ( अत्र ग्रन्थे मूलगाथा ४ टीकायां ) पञ्चचारित्रविषयप्रायश्चित्तदर्शनाधिकारे पूर्वं व्याख्याते अपि सम्प्रति चारित्रद्वयसद्भावात् तद्विषयप्रायश्चित्तप्रतिपादकत्वेन सूत्रान्तर्गते कृते इति पुनर्व्याख्याते । एवं दशविधमपि प्रायश्चित्तं क्रमेण प्रदर्शितम् ।।३००।। अथ साधूनां योगविधिविषयातिचारप्रायश्चित्तं गाथात्रयेणोपदर्शयति समणुन्नसमुद्देसे दिणसमकाले अ कालि अस्सुद्धे । वमणे निसि वोसरणे वितहमणुट्टाणकरणे अ ।। ३०१ ।। अइरित्तुसंघट्टीअ - भत्तपरिट्ठवणि थंडिलाणं च । तह कालमंडलाणं च अपेहेणे कलहविकहासु ।। ३०२ ।। जोगेसु दिवसवुड्ढीति पंचमाईहिं सेसखलिएहिं । तिहिं विगइमउलिएहिं इअरेहिं पंच सत्तहि वा । । ३०३ । ।

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226