Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 210
________________ जइ - जीयकप्पो जत्थुप्पन्नो दोसो उपज्जिस्सइ व जत्थ नाऊणं । तत्तो तत्तो कीरइ खित्ताओ खित्तपारंची ।।२९५।। व्याख्या-वसतिः प्रस्तावाद् ग्रामः । निवेशनम् एकनिर्गमप्रवेशद्वारो ग्रामयोरन्तराले व्यादिगृहाणां सन्निवेशः। एवंविधस्वरूप एव ग्रामान्तर्गतः पाटकः । साही शाखा शाखारूपेण श्रेणिक्रमेण स्थिता ग्रामगृहाणामेकतः परिपाटिः । नियोगपुर, निश्चिता योगा दिनकृत्यव्यापारा यस्य स नियोगो राजा तस्य पुरं राजधानी । देशो जनपदः । राज्यं राष्ट्रम् । यावत्सु देशेष्वेकभूपतेराज्ञा तावद्देशप्रमाणम् । एषां द्वन्द्वस्तस्मात् क्षेत्रात् पाराश्चिकः। कुलगणसङ्घालयाद्वा कुलगणसङ्घानामाऽऽसामस्त्येन यत्र क्षेत्रे लयनं मिलनं तस्माद्वा । यत्र क्षेत्रे वसतिनिवेशनादिके उत्पन्नो दोषः पाराञ्चिककारी उत्पत्स्यते वा यत्र तिष्ठतो दोषस्तद् ज्ञात्वा ततस्ततः क्षेत्रात्क्षेत्रपाराधिकः क्रियते ।।२९४-२९५।। कालतपःपाराञ्चिकावाह जत्तिअमित्तं कालं तवसा पारंचिअस्स वि स एव । कालो दुविगप्पस्स वि अणवठ्ठप्पस्स जो भणिओ ।।२९६।। व्याख्या- सूचकत्वात् सूत्रस्य' यो यावन्तं कालमनुपशान्तदोषोऽनुपरतपाराधिकापत्तिहेत्वतिचारः स तावन्तं कालं कालपाराश्चिकः । तपसा पाराधिको द्विविधः-आशातनापाराञ्चिकः प्रतिसेवनापाराञ्चिकश्च । आद्यः प्रागुक्तरूपः । प्रतिसेवनापाराञ्चिकस्त्रिधा-दुष्टः प्रमत्तोऽन्योन्यकुर्वाणश्च । आद्यान्त्यभेदी प्रागुक्तरूपौ । प्रमत्तो मूढः । स पञ्चधा-कषाय-विकथा-मद्ये-न्द्रिय-निद्राख्यैः प्रमादभेदैविस्तरेणाख्येयः । अस्य च तपःपाराधिकस्य द्विविकल्पस्यापि स एव कालः प्रमाणसमयो यः पूर्वमनवस्थाप्यस्याभिहितः । तस्य चेयं योजना आशातनातपःपाराञ्चिकस्य जघन्येन षण्मासा उत्कर्षेण वर्षम् । प्रतिसेवनापाराञ्चिकस्य तु जघन्येन वर्षम् । उत्कर्षेण द्वादश वर्षाणि । तथा पाराञ्चिकमप्यनवस्थाप्यमिव संहननादिगुणवत एव दीयते । तपोऽपि पारिहारिकाख्यमनवस्थाप्यस्येव पाराञ्चिकस्यापि भवति ।।२९६।। प्रतिपन्नपाराञ्चिकस्य साधोविधिमाह एगागी खित्तबहिं कुणइ तवं सुविउलं महासत्तो । अवलोअणमायरिओ पइदिणमेगो कुणइ तस्स ।।२९७।। व्याख्या-एकाकी महासत्त्वो जिनकल्पिकप्रतिरूपः क्षेत्राद् बहिः स्थितः सुविपुलं पारिहारिकतपोरूपं तपः करोति । स च यत्र यत्र क्षेत्रे आचार्यो विहरति ततस्ततः क्षेत्रादर्द्धयोजनं परिहत्य बहिः तिष्ठति । बहिः स्थितस्य च तस्याचार्यः प्रतिदिवसमवलोकनं करोति । सूत्रार्थो पोरुष्यौ द्वे अपि दत्त्वा तस्य समीपं याति । अर्थपौरुषीमदत्त्वा वा याति । अथवा द्वे अप्यदत्त्वा याति । अथाचार्यो दुर्बलः तत्समीपं गन्तुमक्षमः कुलगणादिकार्येण वा व्यापृतः ततो गीतार्थं शिष्यं तत्र प्रेषयति । तत्र आचार्यस्याचार्यप्रषितस्य वा शिष्यस्य तत्समीपं गच्छतस्तत्समीपादागच्छतो वाऽपान्तराले साधवो भक्तं पानं चोपनयन्ति । पाराञ्चिकसाधुस्तु यद्यग्लानस्तदा स्वयमेव भक्तपानादिकमानयति।

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226