Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 207
________________ जइ - जीयकप्पो एते चत्वारोऽपि साधवो दुष्टत्वाल्लिङ्गपाराञ्चिकाः । परपक्षकषायदुष्टस्तु राजवधक उदायिनृपमारकवत् । विषयदुष्टे चैवं भङ्गचतुष्टयं-स्वलिङ्गी स्वलिङ्गीनी साध्वीं सेवते १, स्वलिङ्गी गृहिलिङ्गां स्त्रियं २, स्वलिङ्गी अन्यलिङ्गिनी परिवाजिकादिकाम् ३, अन्यलिङ्गी चान्यलिङ्गामिति ४, शून्योऽयं भङ्गः । तत्राद्यो विषयदुष्टःपावाणं पावयरो दिट्ठिभासे वि सो न कायवो । जो जिणमुई समणिं नमिऊण तमेव धरिसेइ' ।। . (बृ०क० ५००९) द्वितीयविषयदुष्टस्तु बहुशः पौनःपुन्येन प्रकाशो लोकविदितः राजाग्रमहिषीप्रतिसेवकः । अग्रमहिषीग्रहणादन्यापि या काचिदिष्टा राज्ञस्तत्सेवकश्च, चशब्दाधुवराजसेनापत्याद्यग्रमहिषीसेवकश्च । द्वावप्येतो लिङ्गपाराश्चिकौ । तृतीयविषयदुष्टस्यातिशयी लिङ्गं दद्यान्नान्यः । अनतिशयी तु तस्यापि लिङ्गपाराञ्चिकमेव दत्त इत्यर्थः । अत्राह शिष्यः-सामान्यस्त्रीसेवकः साधुः किं न पाराञ्चिकः ? उच्यते बह्वपाया राजाद्यग्रमहिष्यः । तत्सेवने कुलगणसङ्घाचार्याणां प्रस्तारः संहाररूपो निर्विषयता वा स्यात् । इतरस्त्रीषु पुनर्वतभङ्ग एव दोषः । दोषवतः एव चैकस्यापाय इति तस्य मूलम् ।।२९१ ।। व्याख्यातो दुष्टपाराञ्चिको, मूढपाराञ्चिकमाह थीणद्धिमहादोसो अन्नुन्नासेवणापसत्तो अ। चरमठाणावत्तिसु बहुसो अ पसज्जए जो अ ।।२९२ ।। व्याख्या-स्त्यानर्द्धिः दर्शनावरणीयकर्मभेदरूपस्य निद्रापञ्चकस्य पञ्चमो भेदः । यदुदयेऽतिसङ्क्लिष्टपरिणामाद्दिनदृष्टमर्थमुत्थाय प्रसाधयति केशवार्द्धबलश्च जायते । तदनुदयेऽपि च स शेषपुरुषेभ्यस्त्रिचतुर्गुणबलो भवति । इयं च प्रथमसंहननिन एव भवति । अयमेव च महान् दोषो यस्य स स्त्यानर्द्धि महादोषः । अयं च मूढः प्रमत्तश्च कथ्यते । एते च पुद्गल-मोदक-हस्तिदन्त-कुम्भकार-वटशाखासाधवः पञ्च स्त्यानळ्यामुदाहरणानि । तद्यथाएकः कौटुम्बिको ग्रामे मांसमेवात्त्यनेकधा । श्रुत्वा धर्मं स केषाश्चित् समीपे व्रतमग्रहीत् ।।१।। १. एगम्मि गामे एगो कोडुंबी पक्काणि य तलियाणि य तिम्मणेसु अ अणेगसो मंसप्पगारे भक्खेइ । सो अ तहारूवाणं थेराणं अंतिए धम्म सोउं पब्बइओ गामाइसु विहरइ । तेण य एगत्थ गामे महिसो विगिच्चमाणो दिट्टो । तस्स मंसे अभिलासो जातो । सो तेण अभिलासेण अब्बोच्छिन्नेणेव भिक्खं हिंडित्ता अव्वोच्छिन्नेणेव भुत्तो, एवं अब्बोच्छिन्नेण वियारभूमिं गतो । चरिमा सुत्तपोरिसी कया, आवस्सयं काउं पातोसिया पोरिसी विहिता । तदभिलासी चेव सुत्तो, सुत्तस्सेव थीणद्धी जाया । सो उट्टिओ, अणाभोगणिवत्तिएणं करणेणं गतो महिसमंडलं, अन्नं महिसं हंतुं भक्खित्ता सेसं आगंतु उवस्सयस्स उवरिं ठवितं । पच्चूसे गुरूणं आलोएइएरिसो सुविणो दिट्ठो । साहूहिं दिसावलोकं करेंतेहिं दिटुं कुणिमं, जाणियं जहा-एस थीणद्धी । ताहे लिंगपारंचियं पच्छित्तं से दिन्नं ।। अथ गाथाक्षरार्थ:-पिशिताशी कश्चित् पूर्व गृहवासे आसीत् । स च महिषं विकर्त्तितं दृष्ट्वा साततद्भक्षणाभिलाषः सत्र' महिषमण्डले निशि' रात्रौ गत्वा अन्यं महिषं हत्वा खादति । शेषम्' उद्धरितमुपाश्रये नयति ।।

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226