Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 205
________________ जइ - जीयकप्पो एष युष्मान्नालापयिष्यति युष्माभिरपि नालाप्यः । एष सूत्रार्थो शरीरवार्ता वा न प्रक्ष्यति युष्माभिरपि न पृच्छ्यः । खेलमल्लकमात्रकादिकं वा नास्य ग्राह्यमर्पणीयं वा । उपकरणं परस्परं न प्रतिलेख्यम् । भक्तपानं परस्परं न ग्राह्यम् । सङ्घाटकेऽस्य न मिलनीयम् । अनेन सहैकमण्डल्यां न भोक्तव्यम् । किमप्यनेन साड़ न कार्यं कार्यमिति । अधुना गाथाक्षरार्थः-प्रतिपन्नानवस्थाप्यतपाः शैक्षादीनपि वन्दते, न चासौ वन्द्यते । परिहारतपश्च पारिहारिकसाधूनां तपः ग्रीष्मे चतुर्थषष्ठाष्टमानि । शिशिरे षष्ठाष्टमदशमानि । वर्षाष्वष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि । पारणके च निर्लेपभक्तमित्येवंरूपं सुदुश्चरं तपश्चरति । संवासः सहवासो गच्छेनास्य एकक्षेत्रे एकोपाश्रये एकस्मिन् पार्श्वे शेषसाध्वपरिभोग्यप्रदेशे कल्पते, नालपनादीनि शेषाणीत्येष सङ्क्षपतोऽनवस्थाप्यविधिः ।।२८९।। उक्तमनवस्थाप्यार्हम् । साम्प्रतं पाराञ्चिकमाह तित्थयरपवयणे सुअं आयरिअं गणहरं महडिअं। आसायंतो बहुसो आभिनिवेसेण पारंची ।।२९०।। _(गु०वि० ३/१२) व्याख्या-तीर्थकरादीन् आशातयन् हीलयन् आशातनापाराञ्चिको भवति ।।२९०।। प्रतिसेवनापाराञ्चिकमाह जो उ सलिंगे दुट्ठो कसायविसएहिं रायवहगो अ। रायग्गमहिसिपडिसेवओ अ बहुसो पगासो अ ।।२९१ ।। व्याख्या-इह प्रतिसेवनापाराञ्चिकस्त्रिधा दुष्टो मूढोऽन्योन्यं कुर्वाणश्च । यदाहपडिसेवणपारंची तिविहो सो होइ आणुपुबीए । दुढे अपमत्ते आनायब्वे अन्नमन्ने अ' ।। यश्च दुष्टः स द्विधा कषायतो विषयतश्च । पुनरेकैको द्विधा । सलिङ्ग त्ति । समानलिङ्गे सपक्षे श्रमणश्रमणीरूपे, चकारात् परलिङ्गे च परपक्षे गृहस्थेऽन्यतीर्थिक वा । ततश्च सपक्षपरपक्षाभ्यां कषायदुष्टे विषयदुष्टे च चत्वारश्चत्वारो भङ्गा भवन्ति । तत्रैवं कषायदुष्टे भङ्गचतुष्टयं-सपक्षकषायदुष्टः परपक्षकषायदुष्टश्चेत्येको भङ्गः। सपक्षकषायदुष्टो न परपक्षकषायदुष्ट इति द्वितीयः । न सपक्षकषायदुष्टः परपक्षकषायदुष्ट इति तृतीयः। उभाभ्यामपि न दुष्ट इति चतुर्थः शुद्धो भङ्गः । उक्तं चदुविहो अ होइ दुट्ठो कसायदुट्ठो अ विसयदुट्ठो अ। दुविहो कसायदुट्ठो सपक्खपरपक्ख चउभङ्गो' ।। (नि०भा ३६८१, बृ०क० ४९८६) तत्र सपक्षकषायदुष्टे चत्वार्युदाहरणानि-सासवनाले, महणंतए अ, सिहरिणि, उलगच्छी । सासवनालं ति सर्षपभर्जिका। साधुः कोपि गतो भिक्षा लब्ध्वा सर्षपभर्जिकाम् । रुच्यां सुसंस्कृतां गृद्धोऽप्याचार्याणामढौकयत् ।।१।। भुक्ता सर्वापि साचार्यैः साधुश्चाक्रोशयत् स तान् । ततस्तैः क्षमितोप्युच्चैरूचे भक्ष्यामि ते रदान् ।।२।। A. सर्षपभर्जिकायाः विस्तरतः दृष्टान्ताय अस्य ग्रन्थस्य मूलगाथा ३२, पृ.क्र. ३५, उपरि टिप्पणी द्रष्टव्या ।

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226