Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो 'संघयण-विरिय-आगम-सुत्तत्थविहीइ जो समग्गो अ। तवसी निग्गहजुत्तो पवयणसारे अ गहिअत्थे' ।। 'तिलतुसतिभागमित्तो वि जस्स असुहो न विजई भावो । निज्जूहणारिहो सो सेसे निज्जूहणा नत्थि' ।।
(बृ०क० ५०२९-५०३०, गु०वि० २/३१३ - ३१४) 'एअगुणसंपउत्तो पावइ अणवट्टमुत्तमगुणोहो । एअगुणविप्पहीणे तारिसगंमी भवे मूलं" ।।
(बृ०क० ५०३१) तवसी तपश्चरणवान् निग्गहजुत्तो जितेन्द्रियः निज्जूहणारिहो गच्छात्पृथक्करणार्हः । अपवादतस्त्वनन्यसाध्यकुलगणसङ्घकार्यकारी । बहुजनसाध्यं च कार्यं शृङ्गनादितमुच्यते, तत्साधकश्चायमित्यतः कारणात् सर्वोऽपि द्विप्रकारोऽपि आशातनाप्रतिसेवनानवस्थाप्यतपो न कारयेदित्यर्थः ।।२८८।। यस्त्वनवस्थाप्यतपः प्रतिपद्यते, तद्विधिमाह
वंदइ न य वंदिज्जइ परिहारतवं सुदुच्चरं चरइ ।
संवासो से कप्पइ नालवणाईणि सेसाणि' ।।२८९।। व्याख्या-अनवस्थाप्यतपश्चरणकरणकालं यावत्स्वगणं गीतार्थे निक्षिप्याचार्य उपाध्यायो वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु । तत्र द्रव्यतो वटादौ क्षीरवृक्षे । क्षेत्रत इक्षुशालिक्षेत्रकुसुमितवनखण्डप्रदक्षिणावर्त्तजलपद्मसरश्चैत्यगृहादिषु । कालतः पूर्वाह्ने । भावतः प्रशस्तेषु चन्द्रताराबलेसु सन्ध्यागतादिनक्षत्रव मालोचनां प्रयुङ्क्ते-स्वातिचारं प्रकाशयति । सन्ध्यागतादीनि चैतानि'संझागयं रविगयं विडेरं सग्गहं विलंबि च । राहुहयं गहभिन्नं च वज्जए सत्त नक्खत्ते' ।।
(व्य०सू० ३०९, नि०भा० ६३८४) तत्र लोकश्रीटीकाकारव्याख्या-सूर्ययुक्तादनन्तरं नक्षत्रं सन्ध्यागतम् । रविर्यत्र चारवशाद्वर्त्तते तद् रविगतम् । यस्मिन्नक्षत्रे ग्रहो वक्रमुपयाति युद्धं वा विधत्ते तद्विड्डेरम्। भौमादिक्रूरग्रहेरेवोपयुक्तं नक्षत्रं सग्रहम् । सूर्यास्तकाले यन्नक्षत्रमुदेति तद्विलम्बितम् । राहुणा मुखेनाक्रान्तं पुच्छेन वा तद् राहुहतम् । अन्ये त्वाहुर्यस्मिन्नक्षत्रे ग्रहणमासीत्तद्यावद् रविणा न युक्तं तावद् राहुहतमिति । यन्मध्यं ग्रहो विभिद्य निर्गच्छति तद्ग्रहभिन्नम् । केचित्त्वेवं ब्रुवते'जमि रविनक्खत्ते ततो संझागयं तु चउदसमं । विड्डेरं बीइज्ज़ होइ चउत्थं विलंबि च ।। आलोचनानन्तरं च जघन्येन मासमुत्कर्षतः षण्मासादिकमनवस्थाप्यतपः प्रपद्यमाने आलोचनादायकः कायोत्सर्ग करोति । एअस्सायरिअस्स अणवठ्ठप्पतवस्स निरुवसग्गनिमित्तं ठामि काउस्सग्गं अन्नत्थूससिएण' मित्यादि वोसिरामीति यावत् । चतुर्विंशतिस्तवमनुचिन्त्य पारयित्वा चतुर्विंशतिस्तवमुच्चार्याऽऽचार्यो वक्ति'एस तवं पडिवज्जइ न किंचि आलवइ मा य आलवह । अत्तट्टचिंतगस्स उ वाघाओ भे न कायबो' ।।
(व्य०सू० ५४९, नि०भा० ६५९५)
A. राहुगतं इत्यपि पाठः ।

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226