Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 172
________________ जइ - जीयकप्पो जाणंतु ता इमे समणा आयअट्ठी (मोक्षार्थी) अयं मुणी । संतुट्ठो सेवए पंतं लूहवित्ती सुतोसओ' ।। (दशवै० सूत्रम् ५/२/३३-३४) इत्यादिकासु यशोऽर्थं कृतासु मायासु पुनश्चतुर्गुरुकाः ।।२३५।। तथा विज्जाइसुविणलक्खणकोउअभूईनिमित्तपसिणेसु । गिहिणा उवहिवहावणि वमणविरेआइसु अ लहुगा ।।२३६ ।। व्याख्या-विद्या स्त्र्यभिधाना सोपचारसाधना वा, आदिशब्दान्मन्त्र-योगा गृह्यन्ते । तत्र मन्त्रः पुरुषाभिधानः पठितसिद्धो वा, वशीकरणविद्वेषणोच्चाटनपादलेपान्तर्धानादिका योगा अनेकविधास्ते पुनः सर्वेऽपि सविद्या अविद्या वा भवन्ति । स्वप्नं सुप्तजागरावस्थायां प्रायो यद् दृश्यते तच्च शुभाशुभमागामिसुखदुःखनिमित्तं भवति । लक्षणं द्विधा बाह्यमभ्यन्तरं च । तत्र बाह्यं स्वरवर्णादि । अभ्यन्तरं स्वभावसत्त्वादि । तत्र प्राकृतमनुष्याणां बाह्यानि द्वात्रिंशल्लक्षणानि भवन्ति । बलदेववासुदेवानामष्टोत्तरं शतम् । चक्रवर्तितीर्थकराणामष्टोत्तरं सहस्रम् । यानि हस्तपादादिषु स्फुटानि लक्ष्यन्ते तेषामिदं प्रमाणम् , यानि पुनरन्तःस्वभावसत्त्वादीनि तैः सह बहुतराणि भवन्ति । उपलक्षणाढ्यञ्जनमपि ज्ञेयम् । लक्षणव्यञ्जनयोरयं विशेषः- मानोन्मानादिकं लक्षणम्, मषतिलकादिकं व्यञ्जनम् । अथवा शरीरेण सहोत्पन्नं लक्षणं पश्चात्समुत्पन्नं व्यअनम् । मानोन्मानप्रमाणानां चेदं व्याख्यानम्जलदोणमद्धभारं समुहाई समुस्सिओ व जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं एअं'।। (नि०भा० ४२९५ तः ४३०४) कौतुकं निन्दुप्रभृतीनां श्मशानचत्वरादिषु स्नानविधापनम् । भूतिकर्म रक्षानिमित्तं विद्याभिमन्त्रितरक्षाप्रदानम्। निमित्तमतीतादिकालत्रयगतलाभालाभसुखदुःखादिकथनम् । प्रश्नो नानाविधा लोकपृच्छा लग्नबलादिना तस्य कथनम् । प्रश्नात्प्रश्नो वा । स चायं स्वप्नमध्ये विद्या किञ्चित्कथयति । अथवा विद्याभिमन्त्रिता घण्टिका कर्णमूले चाल्यते तत्र देवता कथयति तस्य परेषां कथनम्, ततो विद्यामन्त्रसविद्यायोगप्रयोगे स्वप्नलक्षणव्यञ्जननिमित्तप्रश्नकथने कौतुकभूतिकर्मकरणे, उपलक्षणत्वान्निधानधातुवादकथने शिल्पद्वासप्ततिकलाशिक्षणे मार्ग पृच्छतां मार्गकथने च चतुर्लघुकाः प्रायश्चित्तं भवति । अविद्यायोगप्रयोगे तु मासलघु । मित्रे पुनः संयोगप्रायश्चित्तम्। तथा गृहिणा गृहस्थेनाऽन्यतीर्थिकन वा उपधेः स्वोपकरणस्य वाहने चतुर्लघुकाः । आज्ञादयश्च दोषाः । इमे चापरे-स गृहस्थोऽन्यतीर्थिको वा उपकरणं पातयेत् भाजनं वा भिन्द्यात् मलिने दुर्गन्धे चोपकरणे जुगुप्सा कुर्यात् षट्पदिका वा पातयेत् मारयेद्वा । अयोगोलकल्पो वाऽसौऽस्थण्डिले पृथिव्यादौ स्थापयेत् तद्भारेण वा तस्यात्मविराधना भवेत् तत्र परितापनादि, यच्च पश्चादौषधभेषजानि कुर्वन् विराधयति तन्निष्पन्नं च तस्य प्रायश्चित्तं स्यात् । स वा तदुपकरणं हरेत् तस्यानुपयुक्तस्याऽन्यो हरेत्, ग्लानत्वादिकारणैः पुनरुपकरणवाहनेपि

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226