Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 170
________________ जई - जीयकप्पो कोऽपि श्राद्धो नालप्रतिबद्धो ज्ञातिप्रतिबद्धो गुणानुरक्तो वा आधाकर्म निष्पाद्य निमन्त्रयति । यथा भगवन् ! युष्मन्निमित्तमस्मद्गृहे सिद्धमन्नमास्ते इति समागत्य प्रतिगृह्यतामित्यादि, तत्प्रतिशृण्वति अभ्युपगच्छति अतिक्रमो नाम दोषो भवति । स च तावत् यावदुपयोगपरिसमाप्तिः । किमुक्तं भवति यत्प्रतिशृणोति, प्रतिश्रवणानन्तरं चोत्तिष्ठति, पात्राण्युद्गृह्णाति, उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति । एष समस्तोऽपि व्यापारोऽतिक्रमः । उपयोगपरिसमाप्त्यनन्तरं च यदाधाकर्मग्रहणाय पदभेदं करोति, आदिशब्दात् मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणाय पात्रं प्रसारयति, न चाद्यापि प्रतिगृह्णाति । एष सर्वोऽपि व्यापारो व्यतिक्रमः । गहिए तइए' त्ति । आधाकर्मणि गृहीते, उपलक्षणमेतत् यावद्वसतौ समानीते गुरुसमक्षमालोचित्ते, भोजनार्थमुपस्थापिते, मुखे प्रक्षिप्यमाणेऽपि च यावन्नाद्यापि गिलति तावत्तृतीयोऽतीचारलक्षणो दोषः । गिलिते त्वाधाकर्मण्यनाचारः । एवमन्यत्राप्यतिक्रमादिस्वरूपमवगन्तव्यम् । एतेषु चेदं प्रायश्चित्तम्, तद्यथा - अतिक्रमे व्यतिक्रमे अतीचारे च मासगुरुः यथोत्तरं तपः कालविशेषितः । अनाचारे चतुर्गुरु । एते च मासगुर्वादयः प्रायश्चित्तभेदा अतिक्रमादिष्वविशोधिकोट्यां द्रष्टव्याः । विशोधिकोट्यां त्वेत एव मासादयो लघुकाः ।। २३१ ।। अथाष्टम्यादिपर्वदिनेषु यथोक्ततपोऽकरणे प्रायश्चित्तमाह चउछट्टट्ठमऽकरणे अट्टमिपक्खचउमासवरिसेसु । लहु गुरु लहुगा गुरुगा अवंदणे चेइसाधूणं । । २३२।। (व्य० सू० १३३) व्याख्या–अत्र यथासङ्ख्येन पदयोजना । सा चैवम् - अष्टम्यां चतुर्थस्याकरणे मासलघु । पाक्षिके चतुर्दश्यां चतुर्थस्याकरणे मासगुरु । चतुर्मासके षष्ठस्याकरणे चत्वारो लघुमासाः । सांवत्सरिके अष्टमस्याकरणे चत्वारो गुरुमासाः । तथा एतेषु चाष्टम्यादिषु दिवसेषु चैत्यानां जिनबिम्बानामन्यवसतिगतसुसाधूनां चावन्दने प्रत्येकं मासलघु ।। २३२ ।। अथ प्रत्याख्यानाऽकरण - भङ्गप्रायश्चित्तमाहपाणासंवरि भिन्नं नवकाराईण अगहणे भंगे । लहु तदहिअ तंमत्तं अभिक्खभंगे दसहिं सपयं ।। २३३ ।। व्याख्या -पानस्याऽसंवरणे विकालवेलायां पानकाहारस्याऽप्रत्याख्याने भिन्नमासः । साधुभिः किल भुक्तानन्तरं सर्वाहारसंवरणं कार्यम् । अत एव साधवस्तृतीयपौरुष्यां स्वाध्यायकरणकाले त्रिविधाहारं प्रत्याख्यान्ति, विकाले च पानकाहारमपि । यस्तु विकालेऽपि सर्वसंवरणं न करोति तस्य सर्वाहारासंवरणे लघुमासो भवतीत्युपलक्षणत्वादवसेयम् । तथा नमस्कारसहितपौरुष्यादिप्रत्याख्यानानामग्रहणे गृहीतानां वा भङ्गे लघुमासः । केचित् पुनर्नमस्कारसहितपौरुषीसार्द्धपौरुषीपुरिमार्द्धापार्द्धद्व्यासनैकासननिर्विकृतिकाचाम्लक्षपणानां भङ्गे तदधिकप्रत्याख्यानदानमाहुः । इतरे तु यदेवैकासनादि भज्यते तदेवैकासनादि दीयते इति भणन्ति । तथा

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226