Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 169
________________ जइ - जीयकप्पो भावसंलीनता पुनर्द्विधा-इन्द्रियप्रतिसंलीनता नोइन्द्रियप्रतिसंलीनता च । इन्द्रियप्रतिसंलीनता पञ्चविधा श्रोत्रेन्द्रियादिकेन्द्रियपञ्चकभेदात् । नोइन्द्रियप्रतिसंलीनता च चतुर्विधा क्रोधादिकषायचतुष्कभेदात् । साधुना च द्रव्यतो भावतश्च प्रतिसंलीनेन भाव्यम् , यः पुनः प्रतिसंलीनो न भवति तस्येदं प्रायश्चित्तम् , तद्यथा-द्रव्ये द्रव्यविषये असंलीनस्य स्त्रीनपुंसकसंसक्तवसतौ वसतः चतुर्गुरुका भवन्ति । पुरुषतिर्यग्भिः संसक्तायां पुनर्वसतौ चतुर्लघुकाः । भावे भावविषये घ्राणेन्द्रिये घ्राणेन्द्रियविषये रागतोऽसंलीनस्य गुरुमासः । द्वेषतोऽसंलीनस्य लघुमासः । शेषेषु श्रोत्रेन्द्रियादिषु चतुर्षु विषये रागतोऽसंलीनस्य चतुर्गुरुकाः । एतेष्वेव च द्वेषतोऽसंलीनस्य चतुर्लघुकाः । क्रोधे मानेऽसंलीनस्य चतुर्लघुकाः । मायायां गुरुमासः । लोभे च चतुर्गुरुकाः । गाथायां तु व्यस्तोपन्यासो लाघवार्थः।।२२८-२२९।। एवं संलीनताप्रायश्चित्तमुक्तम् । अथ विनय-स्वाध्याय-प्रायश्चित्तमाह गुरुवसभभिक्खुखुड्डे अविणय गुरुगाइ जाव लहुमासो । सत्तीइ सुत्तपोरिसि अकरणि लहुगो गुरु अत्थे ।।२३०।। व्याख्या-गुरुवृषभभिक्षुक्षुल्लानामविनये चतुर्गुरुकादिलघुमासान्तं प्रायश्चित्तम् । आचार्यस्याविनये चतुर्गुरु । उपाध्यायस्याविनये चतुर्लघुः । भिक्षोर्गुरुमासः । क्षुल्लस्य च लघुमासो भवतीत्यर्थः । शक्तौ सत्यां सूत्रपौरुष्या अकरणे लघुमासः । अर्थपौरुष्या अकरणे गुरुमासः । व्यवहारे त्वित्थम्सुत्तत्थपोरिसीणं अकरणि मासो उ होइ गुरुलहुगो । चाउक्कालं पोरिसिओवायणंतस्स चउलहुगा' ।। (व्य०सू० १३०) सूत्रार्थपौरुष्योः सूत्रपौरुष्या अर्थपौरुष्या इत्यर्थः । अकरणे यथाक्रमं गुरुमासो लधुमासः । अर्थपौरुषी हि प्रज्ञादिविशिष्टसामग्र्यपेक्षा सूत्रायत्ता च । सूत्रपौरुषी त्वभिनवदीक्षितेनापि जडमतिनापि च यथाशक्ति अवश्यं कर्तव्या । सूत्राभावे सर्वस्याप्यभावाद्, अतः सूत्रपौरुष्या अकरणे मासगुरु । अर्थपौरुष्या अकरणे मासलघु । द्वयोःसूत्रपौरुष्योरकरणे द्वौ लघुमासौ । तिसृणां पौरुषीणामकरणे त्रयो लघुमासा इति सामर्थ्यात् प्रतिपत्तव्यम् । धाउक्काल' मित्यादि । चतुष्कालं दिवारात्रिगतप्रथमचरमप्रहररूपेषु चतुर्षु कालेषु सूत्रार्थपौरुषीरवपातयतो भंशयतोऽकुर्वत इत्यर्थः । चतुर्लघुकाश्चत्वारो लघुमासाः ।।२३०।। अणसणमाई नवविहसेसतवोऽकरणि लहुग सत्तीए । वयभगे लहु सहसप्पमायओ गुरुग दपेणं ।।२३१।। व्याख्या-अनशनादेर्नवविधस्य शेषतपसः शक्तौ सत्यामकरणे चतुर्लघुका जीतेनेति सम्भाव्यते । तथा सहसा प्रमादेन वा व्रतभङ्गे लघुमासः । दर्पण अकुशलपरिणामेन व्रतभङ्गे चतुर्गुरुकाः । व्रतभङ्गे चातिक्रमव्यतिक्रमातीचारानाचाररूपाः चत्वारो भेदा भवन्ति । एतेषां चाधाकर्म प्रतीत्येदं व्याख्यानम्आहाकम्मामंतण पडिसुणमाणे अतिक्कमो होइ । पयभेआइ वइक्कम गहिए तइएयरो गिलिए' ।। (व्य०सू० ३३, पिं०नि० १८२)

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226