Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 200
________________ जइ - जीयकप्पो पुनरप्येकया गाथया मूलमेवाह तवईअमसद्दहए तवबलिए चेव होइ परिआए । दुब्बलअप्परिणामे अथिर अबहुस्सुए मूलं ।।२८२।। व्याख्या-यो मासादिकं षण्मासपर्यन्तं तपोऽतीतो व्युत्क्रान्तः । किमुक्तं भवति–मासादिना षण्मासपर्यन्तेन तपसा यो न शुद्ध्यति, तपोग्रहणमुपलक्षणं देशच्छेदमपि योऽतीतो देशच्छेदेनापि यो न शुद्ध्यतीति भावः । तस्य मूलं दीयते इति सर्वत्र सम्बध्यते । तथा असद्दहए' इति । अश्रद्दधानो नाम मिथ्यादृष्टिः । ततो योऽश्रद्दधान एव सन् व्रतेषु स्थापितः पश्चात् सम्यक्त्वं प्रतिपन्नः सन् सम्यगावृत्तो भवति तस्य मूलं देयम् । यथा गोविन्दवाचकस्य दत्तमिति । सवबलिए' त्ति तपसा बलिको बलिष्ठः तपोबलिकः । किमुक्तं भवतिमहतापि तपसा यो न क्लाम्यति, यत्र तत्र स्वल्पे प्रयोजने तपः करिष्यामीति विचिन्त्य प्रतिसेवते । यद्वा षाण्मासिके तपसि दत्ते वदति-समर्थोऽहमन्यदपि तपः कर्तुं तदपि मे देहीति तस्मिन् तपोबलिके मूलम् । पर्याय' इति यस्य च्छेदेन छिद्यमानः पर्यायो न पूर्यते स्तोकत्वात् । अथवा छेदपर्यायं यो न सम्यक् श्रद्दधाति । यथा कोऽय मर्द्धजरतीयो' न्यायः कियत् पर्यायस्य छिद्यते कियन्नेति । यदि छिद्यते तर्हि मूलत एव छिद्यतां यदि वा न किमपीति । यदि वा वक्ति-रत्नाधिकोऽहं बहुकेऽपि परिछिन्ने पर्याय अस्ति मे दीर्घः पर्याय इति न किमपि छेत्स्यति तस्य सर्वस्यापि पर्याय हीनस्य पर्याय श्रद्धानरहितस्य पर्याय गर्वितस्य मूलम् । तथा यो बहुप्रायश्चित्तमापन्नोऽथ च धृति-संहननाभ्यां दुर्बलत्वात्तपः कर्तुमसमर्थस्तस्मिन् दुर्बले मूलम् । तथा अपरिणामत्वात् ब्रूते-यदेतत्तपः पाण्मासिकं युष्माभिर्मे दत्तमेतेन नाहं शुद्ध्यामि प्रायश्चित्तस्य बहुत्वात् तस्मिन्नपरिणामे मूलम् । तथा यो धृतिदुर्बलतया पुनःपुनः प्रतिसेवते तस्मिन्नस्थिरे धृत्यवष्टम्भरहिते मूलम्। तथा अबहुश्रुतोऽगीतार्थः । अथवाऽनवस्थाप्यं पाराञ्चिकं वा आपन्नस्तस्य वाऽबहुश्रुततया तद्दानायोग्यता तस्मिन्नप्यबहुश्रुते मूलं दातव्यमिति । अभिहितं मूलाहँ प्रायश्चित्तम् ।।२८२।। अधुनाऽनवस्थाप्याहँ तदाह उक्कोसं बहुसो वा पउट्ठचित्तो वि तेणि कुणइ । पहरइ जो अ सपक्खे निरवेक्खो घोरपरिणामो ।।२८३ ।। व्याख्या-उत्कृष्टं उत्कृष्टवस्तुविषयं बहुशो वा पौनःपुन्येन प्रदुष्टचित्तो वा सङ्क्लिष्टमनाः क्रोधलोभादिकलुषितमानसो यः स्तैन्यं साधर्मिकस्तैन्यं अन्यधार्मिकस्तैन्यं करोति । तत्र साधर्मिकाः साधवस्तेषां सत्कस्य द्रव्यतः सचित्तस्य शिष्यादेः । अचित्तस्योत्कृष्टोपध्यादेः । मिश्रस्योपधिसहितस्य शिष्यादेश्चौर्यं कुर्वन् । क्षेत्रतोऽन्यसंयतावगृहीतक्षेत्रे तदनुज्ञां विनाऽवतिष्ठमानः । कालतो दिवा वा रात्रौ वा । भावतो रागेण वा द्वेषेण वा । अन्यधार्मिकाः शाक्यादयो गृहस्था वा तेषां सत्कस्याहारोपधिशय्यादेः स्तैन्यं कुर्वाणेऽनवस्थाप्यः क्रियत इत्युत्तरगाथाऽवयवेन योगः । उत्तरार्द्धन च अत्र हत्थायालो गृहीतः । स च त्रिधा । अस्थायाणं दलमाणे हत्थालंबं दलमाणे हत्थायालं दलमाणे अ । क्रमेणैषां व्याख्या - अर्थादानं द्रव्योपादानकारणमष्टाङ्गनिमित्तं तद्ददानः प्रयुआन इत्यर्थः । तत्र कथानकम्

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226