Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो दुःखेनाऽप्रमादभावनायां स्थाप्यत इत्यर्थः । जे इति पादपूरणे । अतो दुर्गतऋणिक इव दरिद्राधमर्ण इवातिप्रभूतं ऋणं अतिचपलचित्तसम्भवापराधवशादयं प्रमादबहुलो जीवः पदे पदे समापद्यमानं कियन्मात्रं प्रायश्चित्तं वक्ष्यति वोढुं शक्ष्यतीति नास्ति मनसापन्नेऽपराधे तपःप्रायश्चित्तं स्थविरकल्पिकानाम् । आलोचनाप्रतिक्रमणप्रायश्चित्ते तु तत्रापि भवत इति मन्तव्यमिति । एष सप्रपञ्चस्तपोर्हप्रायश्चित्तविधिः ।।२७४।। इदानीं छेदाहप्रायश्चित्तं गाथात्रयेणाह
तवगविओ तवस्स य असमत्थो तवमसद्दहतो अ। तवसा व जो न दम्मई अइपरिणाममप्पसंगी अ ।।२७५।। सुबहुत्तरगुणभंसी छेआवत्तिसु पसज्जमाणो अ। पासत्थाइ जो वि अ जईण पडितप्पओ बहुसो ।।२७६ ।। उक्कोसं तवभूमि समईओ सावसेसचरणो अ। छेअं पणगाईअं पावइ जा धरइ परिआओ ।।२७७।।
(त्रिभिर्विशेषकम्) व्याख्या-तपोगर्वितः षण्मासक्षपकोऽन्यो वा विकृष्टतपःकरणक्षमः । तपसश्चासमर्थोऽसहिष्णुः ग्लानो बालो वृद्धो वा । तपोऽश्रद्दधानश्च । तपसा वा पुनःपुनर्दीयमानेनापि यो न दम्यते । अतिपरिणामकोऽपवादैकप्रसक्तः। अतिप्रसंगी वा यो मुहुर्मुहुस्तदेवातिचारपदं सेवते बहुतरं वाऽतिचारस्थानं सेवते । तथा सुबहूनुत्तरगुणान् पिण्डविशुद्ध्यादीन् भंशयति विनाशयतीत्येवंशीलः सुबहूत्तरगुणभंशी । छेदापत्तिषु प्रसनंश्च येनातिचारेण छेदापत्तिर्भवति तमेवातिचारं पुनःपुनर्यः करोति । योऽपि च पार्श्वस्थादिः, आदिशब्दादवसन्नः कुशीलः संसक्तो नित्यवासी वा यतीनां साधूनां संविग्नानां बहुशोऽनेकशः परितर्पको वैयावृत्त्यकरः । तथा उत्कृष्टा तपोभूमिः आदिजिनतीर्थे संवत्सरं मध्यमजिनतीर्थेष्वष्टौ मासाः श्रीवीरतीर्थे षण्मासाः, तां तपोभूमिमतिकान्तः तदधिकप्रायश्चित्तयोग्यमतीचारजातं कृतवानित्यर्थः । सावशेषचरणश्च क्रियमाणेऽपि पर्यायछेदे यस्य सावशेषश्चरणपर्यायो भवति स साधुः पूर्वगाथाद्वयोक्तश्च तपोगर्वितादिः तपोऽर्हप्रायश्चित्तापत्तावपि पञ्चकादिकम्, आदिशब्दाद्दशक-पञ्चदशकादिकं अतीचारानुमानेन छेदं व्रतपर्यायछेदनरूपं प्राप्नोति । यावत्पर्यायं धरति सर्वपर्यायच्छेदो यावन्न भवतीत्यर्थः । सर्वछेदे हि मूलं स्यादिति ।।२७५-२७६-२७७।। उक्तं छेदार्हम् । अधुना मूलाहँ गाथाचतुष्टयेनाह
आउट्टिआइ पंचिंदिघाए मेहुणे अ दप्पेणं । सेसेसुक्कोसाभिक्खासेवणाईसु तीसुपि ।।२७८।।
तवगबिआइएसु अ मूलुत्तरदोसवइअरगएसु । दसणचरित्तवते चिअत्तकिच्चे अ सेहे अ ।।२७९ ।।

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226