Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 197
________________ जइ - जीयकप्पो परिशटन्ति । तावन्मात्रेण च प्रायश्चित्तप्रतिपत्तारः शुद्ध्यन्ति शुद्धस्वभावत्वात् । भगवतां तीर्थकृतामाज्ञेषा सम्यगनुष्ठेया स्थापनारोपणाराशिज्ञानसद्भावे इत्थमुक्तम् ।।२७३ ।। यदा तु स्थापनारोपणाराशिर्न ज्ञायते तदा कस्मान्मासात् कियद्दिनानि गृह्यन्ते ? इति कथनार्थमाह अहवाऽऽगयमासहिए असीइसए लद्धमासमासदिणे। मासगुणे सेसदिणीकयसहिए दिज्ज असि(सी?)इसयं ।।२७४ ।। व्याख्या-अथवेति प्रकारान्तरोपन्यासे । तदेव प्रकारान्तरं दर्शयति । तथाहि-यदा स्थापनारोपणाराशिन ज्ञायते विस्मृतत्वादिना तदा आगतमासा ये आलोचकशिष्यमुखात् प्रतिसेविता मासाः श्रुताः तैरेव मासैरशीतशतस्य षण्मासदिनसङ्ख्यारूपस्य भागो ह्रियते, हृते च भागे यल्लब्धं तत् मासात् मासात् ग्राह्यमानम् । एकैकस्मान्मासात्तावन्ति दिनानि गृह्यन्ते इत्यर्थः । इह यदुद्वरितं ते दिनभागा अवबोद्धव्याः । ततस्तानि प्रतिमासग्राह्यदिनानि मासगुणानि प्रतिसेवितमासगुणितानि क्रियन्ते । शेषाश्च ये दिनभागास्तेप्यागतमासैस्तैरेव गुणयित्वा भागं हृत्वा दिनानि कार्याणि । ततस्तानि पूर्वागतदिनरात्रौ प्रक्षिप्यन्ते, जातमशीतं दिनशतं षाण्मासिकमित्यर्थः। यदा स्थापनारोपणाराशि वगम्यते तदाऽनेन करणप्रकारेणैवं षाण्मासिकं कृत्वा दद्यादिति भावः । यथा श्रुतमासाः १३ एभिरस्मात् १८० राशेगि हते लब्धास्त्रयोदश उद्धरितं ११ ते लब्धास्त्रयोदश श्रुतमासैस्त्रयोदशभिर्गुणिता जातं १६९ ते च शेषा एकादश तैः श्रुतमासैस्त्रयोदशभिर्गुणिता जातम् १४३ । अस्य च तैरेव त्रयोदशभिर्भाग हृते लब्धा एकादश । एतेषां च १६९ पूर्वराशौ प्रक्षेपे जातमशीतं शतम् १८०। एवं सप्रपञ्चं तपःप्रायश्चित्तं प्रदर्शितम् । एतच्च सकलं स्थविरकल्पिकानामनाचारमेवाश्रित्य भवति न पुनरतिक्रमव्यतिक्रमातीचारान् । यदाहसव्वे वि अ पच्छित्ता जे सुत्ते ते पडुच्चऽणायारं । थेराण भवे कप्पे जिणकप्पे चउसु वि पएसु' ।। (व्य०सू० ४३४, नि०भा० ६४९९) यानि कानिचित् सूत्रेऽभिहितानि प्रायश्चित्तानि तानि सर्वाण्यपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारं प्रतीत्य भवन्ति । यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषु पदेषु प्रायश्चित्तं न भवति । तथाहि-प्रतिश्रुतेऽपि यदि स्वतः परतो वा प्रतिबोधितः पदभेदं न कुरुते, कृतेपि वा पदभेदे न गृह्णाति, गृहीतेऽपि यदि न भुङ्क्ते किन्तु परिष्ठापयति, तदा स मिथ्यादुष्कृतमात्रप्रदानेनापि शुद्ध्यतीति न सूत्राभिहित प्रायश्चित्तविषयः । भुआनस्त्वनाचारे वर्तते इति तस्य सूत्रोक्तप्रायश्चित्तविषयता । जिनकल्पे जिनकल्पिकानां पुनश्चतुर्ध्वष्यतिक्रमादिषु पदेषु प्रायश्चित्तं भवति । स्थविरकल्पिकानां च मनसापन्नेऽपराधे तपः प्रायश्चित्तं नास्ति ।। तथा चोक्तम्जीवो पमायबहुलो पडिवक्खे दुक्करं ठवेउं जे । कित्तिअमित्तं वुज्झइ पच्छित्तं दुग्गयरिणीव' ।। अयं जीवः प्रमादबहुलोऽनादिभवाभ्यस्तप्रमादभावनाभावितः ततः प्रतिपक्षेऽप्रमादे स्थापयितुं दुष्करं भवति । A. अवशिष्टम् ।

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226