________________
जइ - जीयकप्पो परिशटन्ति । तावन्मात्रेण च प्रायश्चित्तप्रतिपत्तारः शुद्ध्यन्ति शुद्धस्वभावत्वात् । भगवतां तीर्थकृतामाज्ञेषा सम्यगनुष्ठेया स्थापनारोपणाराशिज्ञानसद्भावे इत्थमुक्तम् ।।२७३ ।। यदा तु स्थापनारोपणाराशिर्न ज्ञायते तदा कस्मान्मासात् कियद्दिनानि गृह्यन्ते ? इति कथनार्थमाह
अहवाऽऽगयमासहिए असीइसए लद्धमासमासदिणे।
मासगुणे सेसदिणीकयसहिए दिज्ज असि(सी?)इसयं ।।२७४ ।। व्याख्या-अथवेति प्रकारान्तरोपन्यासे । तदेव प्रकारान्तरं दर्शयति । तथाहि-यदा स्थापनारोपणाराशिन ज्ञायते विस्मृतत्वादिना तदा आगतमासा ये आलोचकशिष्यमुखात् प्रतिसेविता मासाः श्रुताः तैरेव मासैरशीतशतस्य षण्मासदिनसङ्ख्यारूपस्य भागो ह्रियते, हृते च भागे यल्लब्धं तत् मासात् मासात् ग्राह्यमानम् । एकैकस्मान्मासात्तावन्ति दिनानि गृह्यन्ते इत्यर्थः । इह यदुद्वरितं ते दिनभागा अवबोद्धव्याः । ततस्तानि प्रतिमासग्राह्यदिनानि मासगुणानि प्रतिसेवितमासगुणितानि क्रियन्ते । शेषाश्च ये दिनभागास्तेप्यागतमासैस्तैरेव गुणयित्वा भागं हृत्वा दिनानि कार्याणि । ततस्तानि पूर्वागतदिनरात्रौ प्रक्षिप्यन्ते, जातमशीतं दिनशतं षाण्मासिकमित्यर्थः। यदा स्थापनारोपणाराशि वगम्यते तदाऽनेन करणप्रकारेणैवं षाण्मासिकं कृत्वा दद्यादिति भावः । यथा श्रुतमासाः १३ एभिरस्मात् १८० राशेगि हते लब्धास्त्रयोदश उद्धरितं ११ ते लब्धास्त्रयोदश श्रुतमासैस्त्रयोदशभिर्गुणिता जातं १६९ ते च शेषा एकादश तैः श्रुतमासैस्त्रयोदशभिर्गुणिता जातम् १४३ । अस्य च तैरेव त्रयोदशभिर्भाग हृते लब्धा एकादश । एतेषां च १६९ पूर्वराशौ प्रक्षेपे जातमशीतं शतम् १८०। एवं सप्रपञ्चं तपःप्रायश्चित्तं प्रदर्शितम् । एतच्च सकलं स्थविरकल्पिकानामनाचारमेवाश्रित्य भवति न पुनरतिक्रमव्यतिक्रमातीचारान् । यदाहसव्वे वि अ पच्छित्ता जे सुत्ते ते पडुच्चऽणायारं । थेराण भवे कप्पे जिणकप्पे चउसु वि पएसु' ।।
(व्य०सू० ४३४, नि०भा० ६४९९) यानि कानिचित् सूत्रेऽभिहितानि प्रायश्चित्तानि तानि सर्वाण्यपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारं प्रतीत्य भवन्ति । यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषु पदेषु प्रायश्चित्तं न भवति । तथाहि-प्रतिश्रुतेऽपि यदि स्वतः परतो वा प्रतिबोधितः पदभेदं न कुरुते, कृतेपि वा पदभेदे न गृह्णाति, गृहीतेऽपि यदि न भुङ्क्ते किन्तु परिष्ठापयति, तदा स मिथ्यादुष्कृतमात्रप्रदानेनापि शुद्ध्यतीति न सूत्राभिहित प्रायश्चित्तविषयः । भुआनस्त्वनाचारे वर्तते इति तस्य सूत्रोक्तप्रायश्चित्तविषयता । जिनकल्पे जिनकल्पिकानां पुनश्चतुर्ध्वष्यतिक्रमादिषु पदेषु प्रायश्चित्तं भवति । स्थविरकल्पिकानां च मनसापन्नेऽपराधे तपः प्रायश्चित्तं नास्ति ।। तथा चोक्तम्जीवो पमायबहुलो पडिवक्खे दुक्करं ठवेउं जे । कित्तिअमित्तं वुज्झइ पच्छित्तं दुग्गयरिणीव' ।। अयं जीवः प्रमादबहुलोऽनादिभवाभ्यस्तप्रमादभावनाभावितः ततः प्रतिपक्षेऽप्रमादे स्थापयितुं दुष्करं भवति ।
A. अवशिष्टम् ।