________________
जई - जीयकप्पो
दद्यात् स्तोकत्वात्तत्र तासु स्थापनास्वारोपणासु चैको मासो द्रष्टव्यः । दिणा उ ते चेव' त्ति । न तान्येव यान्युपात्तानि । न पुनर्माससङ्ख्यां द्विरूपसहितां कृत्वा पञ्चभिश्च गुणयित्वा दिनान्यानेतव्यानीति भावः । अथ यत्रोत्कृष्टा स्थापनारोपणा वा स्थापनारोपणाभ्यामेव षण्णां मासानां परिपूर्णभवनात् । ठेवणारोवणदिवसे माणाउ विसोहइत्तु जं सेस' (उपर्युक्ता व्य. सू. ३६९ गाथा) मित्यादिकरणं न प्रवर्त्तते, तदप्रवृत्तौ च कथं सञ्चयमाससङ्कलनं कर्तव्यम् ? तत आह
उक्कस्सारूवणाणं मासा जे हुंति करणनिद्दिट्ठा । ते ठवणामासजुआ संचयमासाउ सब्बासिं' ।। ( व्य० सू० ३८१ )
?
सर्वासामुत्कृष्टानामारोपणानां ये मासा भवन्ति करणनिर्दिष्टाः दिवसा पंचहिं भइआ' (उपर्युक्ता व्य. सू. ३७३ गाथा) इत्यादिना आरोपणाकरणेन निर्द्दिष्टास्ते स्थापनामासयुताः स्थापनायां करणवशतो लब्धा मासास्तैः संयुक्ताः सञ्चयमासा द्रष्टव्याः । यथा विंशिकायां स्थापनायां षष्टदिनशतायामारोपणायां द्वात्रिंशन्मासाः । तथाहि - स्थापनायां द्वौ मासौ लब्धौ तौ च प्रागेव भावितौ आरोपणायाः पञ्चभिर्भागो ड्रियते, लब्धा द्वात्रिंशत् सा द्विरूपहीना क्रियते, जाताः त्रिंशत् । स्थापनामासौ तत्र प्रक्षिप्तावागतं द्वात्रिंशत् प्रतिसेविता मासाः । अथात्र कुतो मासात् किं गृहीतम् ? उच्यते - द्वौ द्वात्रिंशतः सञ्चयमासेभ्यः स्थापनामासौ शोध्येते । स्थिता त्रिंशन् मासास्त्रिंशता मासैर्निष्पन्नास्त्रिंशद्भागाः क्रियन्ते । आगत एकैकस्मिन् भागे एकैको मासः । तत्र प्रथमभागः पञ्चदशभिर्गुण्यते जाताः पञ्चदश, शेषा एकोनत्रिंशत् पञ्चभिर्गुण्यन्ते जातं पञ्चचत्वारिंशं शतं १४५ । उभयमीलने षष्टं शतम् १६० । अत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातमशीतं शतम् । आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश दिवसा गृहीताः । एकस्मात् पञ्चदश, शेषेभ्यः पञ्च पञ्चेति । एवं सर्वत्र भावनीयम् । श्रीवर्द्धमानतीर्थे च षाण्मासिकमेवोत्कृष्टं तपो दातव्यं नाधिकम् । यदुक्तम्
बारस अट्ठ य छक्कग माणं भणिअं जिणेहिं सोहिकरं । तेण परं जे मासा संहणंता परिसडंति' ।। ( व्य० सू० ४०२, नि०भा० ६४६६) मीयते परिच्छिद्यते वस्त्वनेनेति मानम् । तत् द्विधा - द्रव्ये भावे च । तत्र द्रव्येषु प्रस्थकादिषु, भावतः पुनरिदं मानं प्रायश्चित्तमानं जिनैस्तीर्थकृद्धिस्त्रिविधं शोधिकरं भणितम् । तद्यथा - प्रथमतीर्थकरस्य द्वादश मासाः, मध्यमतीर्थकृतामष्टौ मासाः, वर्द्धमानस्वामिनः षट्कं षण्मासाः । इतोऽधिकं न दीयते किन्तु बहुष्वपि प्रतिसेवितेषु मासेष्वेतावन्मात्रमेव । अत्र प्रस्थकदृष्टान्तो यथा - प्रस्थकेन मीयमानं तावन्मीयते यावत्प्रस्थकस्य शिखा परिपूर्णा भवति । ततः परमधिकमारोह्यमाणमपि परिपतति । एवं षण्णां मासानामधिकं यद्यपि प्रतिसेवितं तथापि तत् स्थापनारोपणाप्रकारेण संहन्यमानं परिशटति । तथा चाह- सेण पर' मित्यादि । तत उक्तरूपात् षण्मासादिकान् मानात् घर' मित्यव्ययं ये मासास्ते स्थापनारोपणाप्रकारेण संहन्यमानाः संघात्यमानाः