________________
"
जइ - जीयकप्पो करोति । तत्राद्यं त्रिपञ्चगुणं पञ्चदशगुणं करोति, शेषं तु समस्तमपि पञ्चगुणम् । एतच्चैवं द्रष्टव्यम्— पाक्षिक्यादिष्वारोपणादिषु यदि पुनरेकदिना द्विदिना यावच्चतुर्दशदिना आरोपणा तदा यति दिनारोपणा तति गणं कुर्यात् । ततः ते दिवसाः स्थापनादिवसयुताः क्रियन्ते ततो दिवसाः षण्मासदिवसा भवन्ति । तद्यथा - प्रथमायां स्थापनायां प्रथमायां चारोपणायां त्रयोदश सञ्चयमासाः तेभ्यो द्वौ स्थापनामासौ शोधितौ जाता एकादश । अधिकृतपणा एकमासनिष्पन्नेति । एकादश एकभागेन क्रियन्ते । एकभागकृतं च तत्तथारूपमेव भवतीति समुदिता एव ते एकादश । ततः तिपंचगुणिअ' मिति वचनात् पञ्चदशभिर्गुण्यन्ते । जातं पञ्चषष्टं शतं १६५ । तत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातं पञ्चाशीतं शतं, ततः पञ्च दिनानि झोषीकृतानीति तान्यपसार्यन्ते । जातमशीतं शतम् । आगतं द्वाभ्यां स्थापनाकृतमासाभ्यां दश दश दिनानि गृहीतानि शेषेभ्यस्त्वेकादशमासेभ्यः पञ्चदश पञ्चदश दिनानि यावत् झोषीकृतानि । तथा विंशिकायां स्थापनायां विंशिकायां चारोपणायामष्टादश सञ्चयमासाः, तेभ्यो द्वौ स्थापनामासावपनीतौ । जाताः षोडश । ततोऽत्रारोपणा द्वाभ्यां मासाभ्यां निष्पन्नेति षोडश द्वाभ्यां भागाभ्यां क्रियन्ते । उपर्यष्टौ अधोप्यष्टौ । तत्रोपरितनमाद्यभागं पञ्चदशभिर्गुणयेत् । जातं विंशं शतं १२० । अधस्तनास्त्वष्टौ पञ्चभिर्गुण्यन्ते । जाता चत्वारिंशत् ४० । उभयमीलने जातं षष्टं शतं १६० । अत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातमशीतं शतम्, आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश दिनानि गृहीतानि । अष्टाभ्यो मासेभ्यः पञ्चदश पञ्चदश । अन्ये त्वष्टाभ्यः पञ्च पञ्चेति । तथा विंशिकायां स्थापनायां पञ्चविंशिकायां चारोपणायां त्रयोविंशतिः सञ्चयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ जाता एकविंशतिरत्रारोपणा त्रिभिर्मासैर्निष्पन्नेति ते एकविंशतिः सञ्चयमासास्त्रिभागाः क्रियन्ते । जातास्त्रयः सप्तकाः पुआः । तत्र प्रथमसप्तकः पञ्चदशभिर्गुण्यन्ते जातं पञ्चोत्तरं शतम्, तत्र पक्षो झोष इति पञ्चदश शोध्यन्ते जाता नवतिः ९० । शेषौ च द्वौ भागौ सप्तकौ प्रत्येकं पञ्चभिर्गुण्येते । जाता उभयत्र प्रत्येकं पञ्चत्रिंशत् । उभयमीलने सप्ततिः, सा पूर्वराशौ क्षिप्ता जातं षष्ट्यधिकं शतं १६० । तत्र विंशति स्थापनादिवसाः प्रक्षिप्ता जातमशीतं शतमागतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः, सप्तभ्यो मासेभ्यः पञ्चदश पञ्चदश, चतुर्दशभ्यो मासेभ्यः पञ्च पञ्च पञ्चदश वासराश्च झोषीकृता इति । एवं सर्वत्र भावनीयम् ।।
अथ दिवसा पंचहिं भइआ ' ( उपर्युक्ता व्य. सू. ३७३ गाथा) इत्यादि करणं यत्र न प्रवर्त्तते तत्र विधिमाहअत्थ य दुरूवहीणं न हुज्ज भागं च पञ्चहिं न दिज्जा । तहिं ठवणरुवणमासो एगो उ दिणा उ ते चेव' । ( व्य० सू० ३७८ )
यत्र पुनः स्थापनासु आरोपणासु पञ्चदिनादिकासु पञ्चभिर्भागि हृते लब्धं तत् द्विरूपहीनं न भवेत् । पञ्चदिनादिकासु नवदिनपर्यन्तासु द्वयोरेव रूपयोरसम्भवात् । दशदिनादिकासु तु चतुर्दशदिनपर्यन्तासु द्विरूपहीनतायां शून्यतापत्तेः । यदि वा यासु स्थापनास्वारोपणासु चैकदिनादिषु चतुर्दिनपर्यन्तासु पञ्चभिर्भागमुपरितनो राशिर्न