________________
जइ - जीयकप्पो अस्यां स्थापनायामस्यां चारोपणायामेतावन्तः सधयमासाः सर्वप्रायश्चित्तसङ्कलनमासा भवन्ति । अथ तस्यां स्थापनायामारोपणायां च सञ्चयमासानां मध्ये कुतो मासात् किं गृहीतम् ? अत्र करणमाह ठवणामासे ततो सोहे' । ततः सञ्चयमाससङ्ख्यातः स्थापनामासान् शोधयेत् । शोधिते च सतिदिवसेहिं जइहिं मासो निष्फन्नो हवइ सव्वरुवणाणं । तइहिं गुणिआउ मासा ठवणादिणजुआउ छम्मासा' ।।
(व्य०सू० ३७५) सर्वासामारोपणानां यतिभिर्दिवसैर्मासो भवति निष्पन्नस्ततिभिर्गुणितास्ते कर्तव्याः । पुनः स्थापनादिनयुक्तास्ततस्ते षण्मासा भवन्ति । यथा प्रथमायां स्थापनायामारोपणायां च त्रयोदश सञ्चयमासास्तेभ्यः स्थापनामासौ द्वौ शोधितौ स्थिता एकादश । अत्रारोपणायामेको मासः, स च पञ्चदशभिर्दिननिष्पन्न इति ते एकादश पञ्चदशभिर्गुण्यन्ते । जातं पञ्चषष्टं शतं । ततो विंशतिदिवसाः स्थापनासत्काः प्रक्षिप्यन्ते । जातं पञ्चाशीतं शतं पञ्चझोष इति ते त्यक्ताः । जाताः षण्मासाः । आगतं द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि । शेषेभ्यस्त्वेकादशेभ्यः पञ्चदश पञ्चदश दिनानि । केवलं तन्मध्यात् पञ्चझोषः कृतः पञ्च दिनानि त्यक्तानीति भावः । एतान्येव च प्राक् राशिसमकरणार्थं प्रक्षिप्तानीति समकरणः प्रक्षेपणीयो राशिोषशब्देनोक्तः। एवं सर्वत्र झोषभावना ज्ञेया । तथा विशिकायां स्थापनायां विशिकायां चारोपणायामष्टादश किल सञ्चयमासाः तेभ्यो द्वौ स्थापनामासौ शोधितौ । जाताः षोडश । अत्र विंशतिदिनारोपणा द्विमासेत्येकैको मासो दशभिर्दिनैर्निष्पन्नः, ततस्ते षोडश दशभिर्गुण्यन्ते । जातं षष्टं शतं १६० । ततः स्थापनादिवसा विंशतिः प्रक्षिप्यन्ते । जातमशीतिशतम् । आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः । शेषेभ्योऽपि षोडशेभ्यो गात्रतो दश दशेति । तथा विशिकायां स्थापनायां पञ्चविंशतिकायां चारोपणायां त्रयोविंशतिः सञ्चयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ । जाता एकविंशतिः । पञ्चविंशतिदिनारोपणा त्रिभिर्मासैर्निष्पन्नेत्येकैको मासः स त्रिभागैरष्टभिर्दिनैर्निष्पन्नस्तत एकविंशतिरष्टभिर्दिनैर्गुणिता जातमष्टषष्टं शतं त्रिभागगुणने च लब्धाः सप्त तेपि तत्र प्रक्षिप्यन्ते । जातं पञ्चसप्ततं शतं तत्र विंशतिः स्थापनादिवसाः प्रक्षिप्यन्ते। जातं पञ्चनवतं शतं १९५। तत्र पञ्चदश दिनानि झोष इति तान् अपनीयन्ते जातमशीतं शतम् । आगतमत्र द्वाभ्यां स्थापनीकृतमासाभ्यां दश दश दिवसा गृहीताः, शेषेभ्यस्त्वेकविंशतिमासेभ्यो गात्रतोऽष्टावष्टौ दिवसाः सत्रिभागाः, केवलं तत्रापि पञ्चदश दिनानि झोषीकृतानि । तदेवं स्थापनातः शेषमासेभ्य गात्रतो यत् गृहीतं तत्प्रतिपादितम् ।। अधुना शेषमासेभ्यो यद् येभ्यो विशेषतो गृहीतं तत्प्रतिपादनार्थं करणमाहरुवणाए जइ मासा तइभागं तं करे तिपंचगुणं । सेसं च पंचगुणिअं ठवणादिवसाजुआ दिवसा' ।।
(व्य०सू० ३७६) स्थापनामासेषु शोधितेषु यच्छेषमवतिष्ठते तत आरोपणायां यति मासाः ततिभागं तावत्सङ्ख्याकभागं