SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते-अष्टादशभिर्मासैः । तद्यथा-षण्णां मासानामशीतिशतं दिवसाः, तेभ्यो विंशतिर्दिना स्थापनाया विंशतिर्दिनान्यारोपणायाः शोध्यन्ते । जातं शेषं चत्वारिंशं शतं । ततोऽधिकृतया विंशिकया आरोपणया भागे हृते उपरितनो राशिर्निर्लेपः शुद्धः । एषा कृत्स्नारोपणा लब्धाः सप्त मासाः । इयमारोपणा द्वाभ्यां मासाभ्यां निष्पन्नेति सप्त मासा द्वाभ्यां गुण्यन्ते । जाताश्चतुर्दश मासाः । ततो द्वौ स्थापनामासौ द्वौ चारोपणामासौ चतुर्दशसु प्रक्षिप्यन्ते, आगतं विंशिका स्थापना विंशिका चारोपणा अष्टादशमासैनिष्पन्नेति । दुहंपि' इत्यादि । द्वयोरपि आरोपणयोः कृत्स्नाकृत्स्नयोर्लब्धमीप्सिताया आरोपणाया यति मासा यतिभिर्मासैरीप्सितारोपणा निष्पन्नेति यावत् ततिभिर्गुणय । यद्येकेन मासेन निष्पन्ना तत एकेन गुणय । अथ द्वाभ्यां मासाभ्यां निष्पन्ना तर्हि द्विकेन । अथ त्रिभिः ततस्त्रिभिरित्यादि । अथवा द्वयोरप्यारोपणयोः कृत्स्नाकृत्स्नयोर्लब्ध यति मासास्तत ईप्सितया आरोपणया गुणय । यदि प्रथमा तत एकेन गुण्यते । अथ द्वितीया ततो द्वाभ्यामथ तृतीया ततस्त्रिभिरित्यादि एवं सर्वत्र भावनीयम् ।। अथ स्थापनारोपणादिवसेभ्यो यथा मासा आगच्छन्ति मासेभ्यो वा दिवसास्तथा प्रतिपादयतिदिवसा पंचहिं भइआ दुरूवहीणाउ ते भवे मासा । मासा दुरूवसहिआ पंचगुणा ते भवे दिवसा।। __ (व्य०सू० ३७३) स्थापनाया आरोपणाया वा दिवसाः पञ्चभिर्भज्यन्ते, ततो भागे हृते ये लब्धास्ते द्विरूपहीनाः क्रियन्ते, ततो यदवशिष्यते ते भवेयुर्मासाः । यथा विंशिकायाः स्थापनाया दिवसा विंशतिः, तेषां पञ्चभिर्भागे हते लब्धाश्चत्वारस्ते द्विरूपहीना कृताः स्थितौ द्वौ । आगतं विंशिकास्थापना द्वाभ्यां मासाभ्यां निष्पन्ना । तथा पाक्षिक्या आरोपणाया दिनानि पञ्चदश, तेषां पञ्चभिभगि हृते लब्धाः त्रयस्ते द्विरूपहीनाः कृताः स्थित एक आगतं पाक्षिकी आरोपणा एकेन मासेन निष्पन्ना विंशिकारोपणा विंशिकास्थापना च द्विमासनिष्पन्ना । एवं सर्वत्र भावनीयं । मासा दुरूवसहिआ' इत्यादि । यति मासाः स्थापनायामारोपणायां वा अधिकृतकरणवशात् लब्धास्ते दिवसानयनाय द्विरूपसहिताः क्रियन्ते । ततः पञ्चगुणास्ततो भवेयुर्यथोक्ता दिवसाः । यथा विंशिकायाः स्थापनाया द्वौ मासौ तौ द्विरूपसहितौ क्रियेते जाताश्चत्वारस्ते पञ्चभिर्गुण्यन्ते । आगतं विंशिकास्थापनाया विंशतिर्दिनानि । तथा पाक्षिक्यामारोपणायामेको मासः । स द्विरूपसहितः कृतो जाताः त्रयः ते पञ्चभिर्गुण्यन्ते । आगतं पाक्षिक्यारोपणाया पञ्चदश दिनानि । एवं सर्वत्र भावनीयं ।। तदेवं करणान्यभिधायोपसंहारमाहठवणारोवणसहिआ संचयमासा हवंति एवइआ । कत्तो किं गहि ति अ ठवणामासे ततो सोहे' ।। (व्य०सू० ३७४) पूर्वं ठवणारोवण दिवसे माणाउ विसोहइत्तु' (उपर्युक्ता व्य.सू. ३६९ गाथा) इत्यादि करणवशात् ये लब्धा मासास्तेऽनन्तरोक्तकरणवशादानीता ये स्थापनारोपणामासाः तत्सहिताः क्रियन्ते, ततः शिष्येभ्य एवं प्ररूप्यते।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy