________________
जइ - जीयकप्पो कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते-अष्टादशभिर्मासैः । तद्यथा-षण्णां मासानामशीतिशतं दिवसाः, तेभ्यो विंशतिर्दिना स्थापनाया विंशतिर्दिनान्यारोपणायाः शोध्यन्ते । जातं शेषं चत्वारिंशं शतं । ततोऽधिकृतया विंशिकया आरोपणया भागे हृते उपरितनो राशिर्निर्लेपः शुद्धः । एषा कृत्स्नारोपणा लब्धाः सप्त मासाः । इयमारोपणा द्वाभ्यां मासाभ्यां निष्पन्नेति सप्त मासा द्वाभ्यां गुण्यन्ते । जाताश्चतुर्दश मासाः । ततो द्वौ स्थापनामासौ द्वौ चारोपणामासौ चतुर्दशसु प्रक्षिप्यन्ते, आगतं विंशिका स्थापना विंशिका चारोपणा अष्टादशमासैनिष्पन्नेति । दुहंपि' इत्यादि । द्वयोरपि आरोपणयोः कृत्स्नाकृत्स्नयोर्लब्धमीप्सिताया आरोपणाया यति मासा यतिभिर्मासैरीप्सितारोपणा निष्पन्नेति यावत् ततिभिर्गुणय । यद्येकेन मासेन निष्पन्ना तत एकेन गुणय । अथ द्वाभ्यां मासाभ्यां निष्पन्ना तर्हि द्विकेन । अथ त्रिभिः ततस्त्रिभिरित्यादि । अथवा द्वयोरप्यारोपणयोः कृत्स्नाकृत्स्नयोर्लब्ध यति मासास्तत ईप्सितया आरोपणया गुणय । यदि प्रथमा तत एकेन गुण्यते । अथ द्वितीया ततो द्वाभ्यामथ तृतीया ततस्त्रिभिरित्यादि एवं सर्वत्र भावनीयम् ।। अथ स्थापनारोपणादिवसेभ्यो यथा मासा आगच्छन्ति मासेभ्यो वा दिवसास्तथा प्रतिपादयतिदिवसा पंचहिं भइआ दुरूवहीणाउ ते भवे मासा । मासा दुरूवसहिआ पंचगुणा ते भवे दिवसा।।
__ (व्य०सू० ३७३) स्थापनाया आरोपणाया वा दिवसाः पञ्चभिर्भज्यन्ते, ततो भागे हृते ये लब्धास्ते द्विरूपहीनाः क्रियन्ते, ततो यदवशिष्यते ते भवेयुर्मासाः । यथा विंशिकायाः स्थापनाया दिवसा विंशतिः, तेषां पञ्चभिर्भागे हते लब्धाश्चत्वारस्ते द्विरूपहीना कृताः स्थितौ द्वौ । आगतं विंशिकास्थापना द्वाभ्यां मासाभ्यां निष्पन्ना । तथा पाक्षिक्या आरोपणाया दिनानि पञ्चदश, तेषां पञ्चभिभगि हृते लब्धाः त्रयस्ते द्विरूपहीनाः कृताः स्थित एक आगतं पाक्षिकी आरोपणा एकेन मासेन निष्पन्ना विंशिकारोपणा विंशिकास्थापना च द्विमासनिष्पन्ना । एवं सर्वत्र भावनीयं । मासा दुरूवसहिआ' इत्यादि । यति मासाः स्थापनायामारोपणायां वा अधिकृतकरणवशात् लब्धास्ते दिवसानयनाय द्विरूपसहिताः क्रियन्ते । ततः पञ्चगुणास्ततो भवेयुर्यथोक्ता दिवसाः । यथा विंशिकायाः स्थापनाया द्वौ मासौ तौ द्विरूपसहितौ क्रियेते जाताश्चत्वारस्ते पञ्चभिर्गुण्यन्ते । आगतं विंशिकास्थापनाया विंशतिर्दिनानि । तथा पाक्षिक्यामारोपणायामेको मासः । स द्विरूपसहितः कृतो जाताः त्रयः ते पञ्चभिर्गुण्यन्ते । आगतं पाक्षिक्यारोपणाया पञ्चदश दिनानि । एवं सर्वत्र भावनीयं ।। तदेवं करणान्यभिधायोपसंहारमाहठवणारोवणसहिआ संचयमासा हवंति एवइआ । कत्तो किं गहि ति अ ठवणामासे ततो सोहे' ।।
(व्य०सू० ३७४) पूर्वं ठवणारोवण दिवसे माणाउ विसोहइत्तु' (उपर्युक्ता व्य.सू. ३६९ गाथा) इत्यादि करणवशात् ये लब्धा मासास्तेऽनन्तरोक्तकरणवशादानीता ये स्थापनारोपणामासाः तत्सहिताः क्रियन्ते, ततः शिष्येभ्य एवं प्ररूप्यते।