________________
जई - जीयकप्पो
भागो ह्रियते, तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पञ्चसु च प्रक्षिप्तेषु प्रयच्छतीति पञ्चपरिमाणोऽत्र झोषः प्रक्षिप्यते । ततो भागे हते लब्धा दश मासाः । वक्ष्यमाणकरणतो द्वौ स्थापनाया मासौ एकश्चारोपणाया मास इत्यागतास्त्रयोदश मासाः प्रतिसेविताः । एवं विंशिका स्थापना पञ्चविंशतिदिना चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते - त्रयोविंशतिमासैः । तथाहि - स्थापनादिवसा विंशतिरारोपणादिवसाः पञ्चविंशतिरेते मिलिताः पञ्चचत्वारिंशत् । ते षण्मासदिवसेभ्योऽशीतिशतसङ्ख्येभ्यः शोध्यन्ते । जातं शेषं पञ्चत्रिंशशतम्। ततोऽधिकृतपञ्चविंशतिदिनया आरोपणया तस्य भागो ह्रियते । तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पञ्चदशसु च प्रक्षिप्तेषु प्रयच्छतीति पञ्चदशपरिमाणोऽत्र झोषः प्रक्षिप्यते लब्धाः षण्मासाः । तथा वक्ष्यमाणकरणतोऽधिकृतारोपणया पञ्चभिर्भागो हियते लब्धाः पञ्च ते द्विरूपहीनाः क्रियन्ते, जातास्त्रय एतावन्त आरोपणाया मासा यदि वेयं तृतीयारोपणेति ते षण्मासास्त्रिभिर्गुण्यन्ते जाता अष्टादश, द्वौ स्थापनामा सौ त्रयश्चारोपणामासा इत्यागताः सर्वसङ्ख्यया त्रयोविंशतिमासाः ।
अथवाऽन्यथा झोषपरिमाणं कथयति—
ठवणादिवसे माणा विसोहइत्ताण भयह रुवणाए । जो छेयं सविसेसो अकसिणरुवणाइ सो झोसो' ।। ( व्य०सू० ३७१ ) मानात् षण्मासदिवसपरिमाणात् अशीतिशतात् स्थापनादिवसान् अधिकृतस्थापनावासरान् विशोध्य यच्छेषमवतिष्ठते तत् आरोपणया अधिकृतारोपणादिवसैर्भज भागहारं कुरु । भागे च हृते यच्छेदांशानां विश्लेषः । इह विश्लेषे कृते सति यदवतिष्ठते, तदपि विश्लेषतो जातत्वात् विश्लेषः । स तावत्प्रमाणोSकृत्स्नारोपणायां झोषः । यथा षण्मासदिवसपरिमाणादशीतिशतात् विंशतिकायाः स्थापनाया दिवसा विंशतिरिति शोध्यते । जातं षष्ट्यधिकं शतं १६० । ततः पाक्षिक्यामारोपणायां सञ्चयमासा ज्ञातुमिष्टा इति पञ्चदशभिर्भागो ह्रियते, स्थिताः शेषा दश अधस्ताच्छेदः पञ्चदश । तेभ्यो दश विश्लिष्यन्ते स्थिताः पञ्च, आगतं पञ्चदशिक्यामकृत्स्नारोपणायां पञ्चको झोषः । तथा अशीतिशतात् स्थापनादिवसा विंशतिः शोध्यन्ते, जातं षष्टं शतं १६० । ततः पञ्चविंशतिदिनाया आरोपणायाः सञ्चयमासा ज्ञातुमिष्टा इति पञ्चविंशत्या भागो ह्रियते, शेषा दशच्छेदोऽधस्तात् पञ्चविंशतिः तस्य दशविश्लिष्यन्ते स्थिताः पञ्चदश । आगतं पञ्चविंशतिदिनायामारोपणायां पक्षो झोषः । एवं सर्वत्र भावनीयम् ।।
अत्थ पुण देइ सुद्धं भागं आरोवणाओ सा कसिणा । दुण्हं पि गुणसु लद्धं इच्छिअरुवणाइ जइ मासा' ।। (व्य०सू० ३७२) यस्यां पुनरारोपणायामुपरितनो राशिः शुद्धभागं प्रयच्छति, न किञ्चित् पञ्चाद्यस्यावतिष्ठते इति भावः । सा आरोपणा कृत्स्ना ज्ञातव्या । यथा विंशतिदिना । तथाहि - केनाऽपि पृष्टं विंशतिकास्थापना विंशिका चारोपणा