________________
जइ - जीयकप्पो स्थापनास्थाने पञ्चदशदिना प्रथमा, द्वितीया विंशतिदिना, तृतीया पञ्चविंशतिदिना, एवं पञ्चकवृद्ध्या तावन्नेतव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा त्रयस्त्रिंशत्तमा स्थापना । तृतीय स्थाने प्रथमा पञ्चदिना, द्वितीया दशदिना, पञ्चदशदिना तृतीया, एवं पञ्चोत्तरवृद्ध्या तावन्नेतव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा पञ्चत्रिंशत्तमा स्थापना । चतुर्थे स्थाने प्रथमा एकदिना, द्वितीया द्विदिना, तृतीया त्रिदिना, चतुर्थी चतुर्दिना, एवमेकोत्तरवृद्ध्या तावन्नेतव्यं यावदेकोनाशीत्यधिकशतदिनप्रमाणा एकोनाशीतिशततमा स्थापना । एवमारोपणाया अपि प्रथमे स्थाने पञ्चदशदिना विंशतिदिना, पञ्चविंशतिदिना. एवं पञ्चकवद्ध्या तावज्ज्ञातव्यं यावत् षष्ट्यधिकशतदिनप्रमाणा त्रिंशत्तमा आरोपणा । द्वितीयस्थाने पञ्चदिना प्रथमा । दशदिना द्वितीया । पञ्चदशदिना तृतीया । एवं पञ्चकवृद्ध्या तावत् ज्ञेयं यावत् पञ्चषष्ट्यधिकशतदिनप्रमाणा त्रयस्त्रिंशत्तमाऽऽरोपणा। तृतीयेऽपि स्थाने पञ्चदिना प्रथमा । दशदिना द्वितीया । पञ्चदशदिना तृतीया, एवं पञ्चकवृद्ध्या तावद् गन्तव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा पञ्चत्रिंशत्तमाऽऽरोपणा । चतुर्थे पुनरारोपणास्थाने स्थापना चतुर्थस्थानवदेकोनाशीतिशतप्रमाणान्यारोपणास्थानान्यवगन्तव्यानि । विंशतिदिनादिकासु च स्थापनासु पाक्षिक्यादिका आरोपणाः प्रत्येक योज्याः । एवं पाक्षिक्यादिकासु स्थापनासु पञ्चाहिकादिका आरोपणाः प्रत्येकं योज्याः । पञ्चाहिकादिस्थापनासु पञ्चाहिकाद्या आरोपणा, एकाहिकादिस्थापनासु पुनरेकाहिकाद्या आरोपणा योजनीयाः । एवं स्थापनारोपणानां परस्परं संवेधतोऽनेके भङ्गा भवन्ति । ते च स्वयं निशीथव्यवहारतो ज्ञेयाः । स्थापनारोपणयोश्च सर्वत्र वृद्धिः तावती कार्या यावत्या उभयमीलने षण्मासाः पूर्णा भवन्ति नाधिकम् ।। अथ का स्थापना आरोपणा च कतिषु मासेषु प्रतिसेवितेषु द्रष्टव्या ? इत्येतत्परिज्ञानार्थमाहठवणारोवणदिवसे माणाउ विसोहइत्तु तु जं सेसं । इच्छिअरूवणाए भए असुज्झमाणे खिवइ झोसं'।।
(व्य०सू० ३६९) मानात् षण्णां मासानां दिवसपरिमाणात् अशीत्यधिकशतरूपात् विवक्षितायाः स्थापनाया विवक्षितायाचारोपणाया ये दिवसाः तान् विशोधयेत् । विशोध्य च यच्छेषमुपलभ्यते तत् ईप्सितया अधिकृतया आरोपणया भजेत् भागं हियात् । भागे च हृते यदि राशिर्निर्लेपः शुध्यति । ततो न किमपि प्रक्षिप्यते, केवलं सारोपणा कृत्स्नेति व्यपदिश्यते । यदि पुनर्निर्लेपो न शुद्ध्यति ततः क्षिपति झोषम् । यस्मिन् प्रक्षिप्ते समो भागहारो भवति सा चारोपणा अकृत्स्नभागहरणादकृत्स्नेति व्यवहर्तव्या । यथा केनापि पृष्टम्-विंशिका स्थापना पाक्षिकी चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते-त्रयोदशभिर्मासैः । तथाहि-षण्णां मासानां मानमशीतं दिवसशतमित्यशीतं शतं ध्रियते १८० । ततो विंशतिकायाः स्थापनाया विंशतिदिनानि पाक्षिक्याश्चारोपणायाः पञ्चदश दिनानि शोध्यन्ते । शोधिते च शेषं जातं पञ्चचत्वारिंशं शतम् । ततोऽधिकृतया पञ्चदशदिनया आरोपणया