________________
इ-जीयकप्पो
एषा गाथाऽनियतविषयाऽप्येवं प्रतिनियतविषयत्वेन भाविता निशीथादौ तथादर्शितत्वात् ।।२७२।। अथ श्रीवीरतीर्थे उत्कृष्टा तपोभूमिः षाण्मासिकं तपो भवतिः । ततः परमपि कश्चित् तत्प्रायश्चित्तमापन्नः स्यात्तस्य कथं प्रायश्चित्तं प्रदीयत ? इत्याह
जइ छम्मास परेण वि आवन्नो जाव मास असिइसयं ।
ठवणरुवणाइ ते विहु काउ दिणे दिज्ज छम्मासं ।।२७३ ।।
व्याख्या - यदि कश्चित् साधुः षण्मासेभ्यः परतोऽपि सप्तमासादीनि प्रायश्चित्तानि यावदशीतिशतमासरूपमुत्कृष्टं तपोर्हप्रायश्चित्तमापन्नः तदा तान् सर्वानपि मासान् स्थापनारोपणाप्रकारेण दिवसान् कृत्वा षाण्मासिकमेवोत्कृष्टं तपस्तस्य दद्यान्नाधिकम् । इयमत्र भावना - मासादारभ्य यावत् षण्मासास्तावत् स्थापनारोपणाव्यतिरेकेणापि सूत्रेणैव प्रायश्चित्तं दीयते । ततः पराणि तु यानि सप्तमासादीनि प्रायश्चित्तानि यावदशीतिशतमासरूपमुत्कृष्टं प्रायश्चित्तं तानि अपरिणामकस्याऽतिपरिणामकस्य वाऽगीतार्थस्य स्थापनारोपणाप्रकारेणैव दीयन्ते । तयोः प्रत्ययहेतुत्वात्तत्प्रकारस्याऽन्यथादोषसम्भवाच्च । गीतार्थस्य अगीतार्थस्य वा परिणामकस्य पुनर्न स्थापनारोपणाप्रकारेण तानि दीयन्ते, तयोरन्यथा दानेऽपि प्रत्ययसम्भवात् दोषाभावाच्च । स्थापनारोपणाप्रकारश्चायम् - यावन्तो मासा दिवसा प्रतिसेविताः तावन्तः सर्वेऽप्येकत्र स्थाप्यन्ते, स्थापयित्वा च यत् सङ्क्षेपार्हं विंशिकादिकं प्रतिसेवितं तत् स्थाप्यते एषा स्थापना । तदनन्तरं येऽन्ये मासाः प्रतिसेवितास्ते सफलीकर्तव्या इत्येकैकस्मान्मासात् प्रतिसेवनापरिणामानुरूपं स्तोकान् स्तोकतरान् समान् विषमान् वा दिवसान् गृहीत्वैकत्र रोपयति । एषा आरोपणा । एषा चोत्कर्षतः तावत्कर्तव्या यावत् स्थापनया सह संकलय्यमानाः षण्मासाः पूर्यन्ते, नाधिकाः । अनेन हि प्रकारेण प्रायश्चित्तदानेऽतिपरिणामकोऽपरिणामको वा चिन्तयति — सर्वे मासाः सफलीकृता इति शुद्धोऽहमिति । तत्र स्थापनाया आरोपणायाश्च चत्वारि स्थानानि भवन्ति । तद्यथा - प्रथमं स्थानं त्रिंशत्स्थानात्मकम् । द्वितीयं त्रयस्त्रिंशत्स्थानात्मकम् । तृतीयं पञ्चत्रिंशत्स्थानात्मकम्। चतुर्थमेकोनाशीत्यधिकस्थानकशतप्रमाणम् । एतेषु च चतुर्ष्वपि स्थानकेष्विमा जघन्या स्थापनारोपणा ।। ठेवणा वीसिअ पक्खिअ पंचिअ एगाहिआ उ बोधव्वा । आरोवणा वि पक्खिअ पंचिअ तह पंचएगाही ' ।। ( व्य०सू० ३५६, नि०भा० ६४३२) स्थापनायाः प्रथमे स्थाने जघन्या स्थापना विंशिका विंशतिरात्रिंदिवप्रमाणा । द्वितीये पाक्षिकी । तृतीये पञ्चदिवसात्मिका । चतुर्थे एकाहिका । आरोपणापि प्रथमे स्थाने जघन्या पाक्षिकी । द्वितीये पश्चिका पञ्चदिनप्रमाणा । तृतीयेऽपि पञ्चिका । चतुर्थे एकाहिका । आद्येषु च त्रिषु स्थापनारोपणास्थानेषु पञ्चोत्तरा वृद्धिः । चतुर्थे त्वेकोत्तरा वृद्धिः । तथाहि - प्रथमस्थापनास्थानके विंशतिदिनस्थापना १ पञ्चविंशतिदिना २ त्रिंशद्दिना ३ एवं पञ्चकवृद्ध्या तावन्नेयं यावत्पञ्चषष्ट्यधिकशतदिनप्रमाणा त्रिंशत्तमा स्थापना । द्वितीये