________________
जइ - जीयकप्पो कस्मिन्नपराधे पुनरेवं क्रमेण तपःप्रभृति प्रायश्चित्तमापद्यत इति दर्शयति
सत्तरत्तं तवो होइ तओ छेओ पहावई । छेएणाछिन्नपरिआए तओ मूलं तओ दुगं ।।२७२ ।।
(नि०भा० ५५८६, बृ०क० ५४८६, व्य०सू० १४०२, गु०वि० २/६९) व्याख्या-सप्तरात्रमिति जातावेकवचनम्, ततोऽयमर्थः-त्रीणि सप्तरात्राणि यावच्चतुर्गुर्वादिकं तपो भवति । ततः सप्तरात्रत्रयानन्तरं छेदः तस्यापराधपदासेविनोऽभिमुखं प्रकर्षेण धावति प्रधावति । छेदेनापि यस्य प्रभूतत्वात् पर्यायो न छिद्यते तस्मिन्नपराधकारिणि छेदेणाछिन्नपययि एकेनैव दिवसेन मूलम् । ततो द्विकमनवस्थाप्यपाराञ्चिकलक्षणम् । इयमत्र भावना-यदा कश्चिदाचार्योऽगीतार्थस्याऽबहुश्रुतस्य वा गणं ददाति, स च तदनुज्ञातो गणं धारयति, तदा द्वयोरप्यनेन क्रमेण प्रायश्चित्तमापद्यते । तथाहि-तयोराचार्ययोः प्रथमतः सप्तरात्रं यावत् दिवसे दिवसे चतुर्गुरुकम् । यद्येतावति गते केनाप्यपरेण गीतार्थेन आर्या ! न कल्पते अबहुश्रुतस्यागीतार्थस्य वा गणं दातुं धारयितुं वा, ततः प्रतिपद्यध्वं सम्प्रत्यपि प्रायश्चित्तमिति प्रज्ञापितौ स्वयं वा यापरतो ततः प्रायश्चित्तमप्युपरतम् । अथ नोपरमेते ततो द्वितीयं सप्तरात्रं दिने दिने षड्लघवः । तृतीयं सप्तरात्रं प्रत्यहं षड्गुरवः । यद्येतावता स्थितौ ततः सुन्दरमेव, नो चेत्ततश्छेदः प्रधावति । तत्रैके आचार्याः पञ्चरात्रिंदिवादारभ्य छेदं प्रस्थापयन्ति । अपरे पुनश्चतुर्गुरुकादिति । पञ्चरात्रिंदिवप्रस्थापनायां भूयोऽप्याऽऽदेशयुगं तद्यथा-केचिदाचार्या लघुभ्यः केचित्तु गुरुभ्यः पञ्चरात्रिंदिवेभ्यश्छेदं प्रारभन्ते । तत्र लघुकं पञ्चरात्रिंदिवप्रस्थापना प्रथमतो भाव्यते-सप्तरात्रत्रयानन्तरं तुरीयं सप्तरात्रं लघुपञ्चकच्छेदः । पञ्चमं गुरुपञ्चकः । षष्ठं लघुदशरात्रिंदिवः। सप्तमं गुरुदशरात्रिंदिवः । अष्टमं लघुपञ्चदशकः । नवमं गुरुपञ्चदशकः । दशमं लघुविंशतिरात्रिंदिवः । एकादशं गुरुविंशतिरात्रिंदिवः । द्वादशं लघुपञ्चविंशतिरात्रिंदिवः । त्रयोदशं गुरुपञ्चविंशतिकः । चतुर्दशं लघुमासिकः । पञ्चदशं गुरुमासिकः । षोडशं चतुर्लघुमासिकः । सप्तदशं चतुर्गुरुमासिकः । अष्टादशं लघुषाण्मासिकः । एकोनविंशं सप्तरात्रं गुरुषाण्मासिकच्छेद इति सर्वसङ्ख्यया त्रयस्त्रिंशं शतमहोरात्राणां भवति । गुरुपञ्चकप्रस्थापनायां तु सप्तरात्रत्रयानन्तरं सप्ताहोरात्राणि प्रथमत एव गुरुपञ्चकछेदः। ततः सप्ताह लघुदशकः। एवं पूर्वोक्तविधिना गुरुदशकादयोऽपि षड्गुरुकान्ताश्छेदाः । सप्ताहं सप्ताहं प्रत्येकं द्रष्टव्या इति । अत्र चाष्टादशभिः सप्तरात्रैः षड्विंशं शतं रात्रिंदिवानां भवति । यदा तु यतः प्रभृति तपः प्रायश्चित्तमुपक्रान्तं तत आरभ्य छेदविवक्षा क्रियते तदा चतुर्थे सप्तरात्रे प्रथमत एव चतुर्गुरुकः छेदः । पञ्चमे षड्लघुकः । षष्ठेषड्गुरुकः एवं षड्भिः सप्तरात्रैर्टिचत्वारिंशद्दिनानि भवन्ति । इत्थं त्रयाणामादेशानामन्यतमेनादेशेन छिद्यमानोऽपि भूयस्त्वात् यदा पर्यायो न छिद्यते । ततो यद्यपि देशोनपूर्वकोटिप्रमाणः पर्यायोऽवशिष्यते तथापि सर्वोपि युगपदेकदिनेनैव छिद्यते इति सर्वछेदलक्षणं ततो मूलम् । ततो द्वितीयदिवसेऽनवस्थाप्यम् । तृतीये पाराञ्चिकम्।