________________
जई - जीयकप्पो
व्याख्या-निर्विकृत्यादिना षष्ठान्तेन तपसा यन्मासगुर्वादिकमप्युह्यते तत्तपो लघुकम् । अष्टमादिना तूह्यमानं मासलघ्वादिकमपि तपो गुरुकम् । ग्रीष्मे यदुह्यते तल्लघुकमपि मासलघ्वादिकमपि कालगुरुकम् । शिशिरवर्षासु तु यन्मासगुर्वादिकमप्युह्यते तत्काललघुकम् । यदाह
सवकाले आसज्जउ गुरू वि होइ उ लहू लहू गुरुओ । कालो गिम्हो उ गुरू अ ठाइ तवो लहू सेसो' ।। ।।२७० ।। गुरुलघुप्रायश्चित्तं पुनः प्रकारान्तरेण दर्शयति
दाणे निरंतरे वा लहुअं पि गुरू गुरुं पि लहु इहरा । सुत्तविहिणाऽविलंबं जं वुज्झइ तं तु हाडहडं ।। २७१।।
( गु०वि० २ / २९३ )
व्याख्या–वाशब्दः प्रकारान्तरोपन्यासे । दाने निरन्तरे सति लघुकमपि गुरुकम्, विचाले पारणकाऽदानेन दीयमानं लघुकमपि तपो गुरुकं भवतीति भावः । इतरथा सान्तरं दीयमानं गुरुकमपि तपो लघुकं भवति । उक्तं च
जंतु निरंतरदाणं जस्स व तस्स व तवस्स तं गुरुअं । जं पुण संतरदाणं गुरुअं पि हु तं लहुं होइ' ।। तथा सूत्रविधिना सूत्रोक्तप्रकारेण यत्प्रायश्चित्तमविलम्बं कालक्षेपं विनैवोह्यते तत्प्रायश्चित्तं हाडहडमित्युच्यते । आरोपणा हि पञ्चविधा । यदुक्तम्
षट्ठविइआ य ठविआ कसिणाऽकसिणा तहेव हाडहडा । आरोवण पंचविहा पायच्छित्तं पुरिसजाए' ।। (नि० भा० ६६४३) आरोपणा पञ्चप्रकारा । तद्यथा - प्रस्थापितिका स्थापिता कृत्स्ना अकृत्स्ना हाडहडा च । एषा पञ्चप्रकाराप्यारोपणा प्रायश्चित्तस्य । तच्च प्रायश्चित्तं पुरुषजाते कृतकरणादौ यथायोग्यमवसेयम् । एतासां चेदं व्याख्यानम्— पट्टविइआ वहते वेआवच्च ठिआ ठविइआउ । कसिणा झोसविरहिआ जहिं झोसो सा अकसिणाओ' ।। (नि० भा० ६६४४) यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापितिका, वैयावृत्त्यकरणलब्धिसम्पन्न आचार्यप्रभृतीनां वैयावृत्त्यं कुर्वन् यत्प्रायश्चित्तमापन्नः तस्यारोपितमपि स्थापितं क्रियते यावद्वैयावृत्त्यपरिसमाप्तिर्भवति । द्वौ योगावेककालं कर्तुमसमर्थ इति कृत्वा सा आरोपणा स्थापितिका । कृत्स्ना नाम यत्र झोषो न क्रियते, अकृत्स्ना यत्र किञ्चित् झोष्यते । हाडहडा त्रिविधा - सद्योरूपा स्थापिता प्रस्थापिता च । तत्र लघुगुरुमासिकादि यत्तप आपन्नः तद्यदि सद्यस्तत्कालं दीयते न कालक्षेपेण तदा सा हाडहडा आरोपणा सद्योरूपा । यदि पुनर्यन्मासिकादिकमापन्नः तद्वैयावृत्त्यमाचार्यादीनां करोतीति स्थापितं क्रियते । तस्मिंश्च स्थापिते यदन्यदुद्घातमनुद्धातं वा आपद्यते तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते सा हाडहडा स्थापिता । षाण्मासिकपाञ्चमासिकादितपो वहन् अन्तरा यदन्यदा उद्घातमनुद्घातं वा तत्तस्यापि प्रमादनिवारणार्थमनुद्घातं यदारोप्यते एषा हाडहडा आरोपणा प्रस्थापिता ।। २७१।।