________________
जइ - जीयकप्पो तत्करणेऽप्यशक्तस्य पुनस्तथैव हासो भवतीति दर्शयति
असहस्स तंपि हसई तो सट्ठाणाउ दिज्ज परट्ठाणे । __इअ हिट्ठमुहे हासे निबिअं ठाइ सुद्धो वा ।।२६८।।
(सड्डजीयकपो १३६) व्याख्या-असहस्य तत्करणासमर्थस्य तदपि पङ्क्तिपर्यन्तकोष्टकगतमपि तपो हास्यते । ततः- पूर्वस्थानतपो दीयते । वर्षासु वर्षाकालोक्तम्, शिशिरे शिशिरोक्तम्, ग्रीष्मे ग्रीष्मोक्तम् । तदपि कर्तुमक्षमस्य ततः स्वस्थानात्परस्थानं परस्थानतपः वर्षास्वपि शिशिरोक्तम् , शिशिरेऽपि च ग्रीष्मोक्तं तपो दीयते । इत्येवमधोमुखे हासे स्थाने स्थाने वर्षाशिशिरग्रीष्मरूपे हासयद्भिः तावन्नेयं यावन्निर्विकृतिकमात्रमेव देयतया स्थितम् । शुद्धो वा यः पुनर्निर्विकृतिकमात्रमपि तपःकर्तुमशक्तः स मिथ्यादुष्कृतेनैव शुद्ध्यतीत्यर्थः । कैश्चित्त्वेवं व्याख्यातम्-आधाकर्मिकाद्युत्पत्तौ या षड्जीवनिकायविराधना तज्जनितं प्रायश्चित्तं स्वस्थानम् । आधाकर्माद्यासेवाभणितं च चतुर्थादिकं परस्थानं तद्दानेऽप्ययमेव हासविधिर्जेय इति । उक्तं चएएहिं दाणेहिं आवत्तिओ सया सया नियमा । बोधव्वा सव्वाओ असहस्सिक्किक्कहासणया ।। जावट्ठिय इक्किक्कं तं पि हासिज्ज असहुणो ताव । दाउं सठाणतवं परठाणं दिज्ज एमेव' ।। एवं ठाणे ठाणे हिट्ठाहुत्तं कमेण हासित्ता । नेअब्बं जाव तिअंनियमा निब्बीअयं इक्कं । एष नवविधो व्यवहारः।। एकाशीतिकस्य नवविधव्यवहारयन्त्रस्य स्थापना चेयं । (स्थापनायन्त्राय द्रष्टव्यं - सहजीयकप्पो पृ.क्र. १००-१०१) ।।२६८।। एवं कालविषयो नवविधदानतपोव्यवहारः पुनरपि प्रकारान्तरेण दानविधिमेवाह
एगाइ जा छमासं आवन्नाणं जहागयं दिज्जा ।
तवकाल गुरुअ लहुअं सझोसमिअरं व जहपत्तं ।।२६९।। व्याख्या-एकादि यावत् षण्मासमापन्नानाम् एकमासिकं द्विमासिकं त्रिमासिकं चातुर्मासिकं पाश्चमासिकं पाण्मासिकं च आपन्नानां साधूनां यथागतं तपःकालाभ्यां गुरुकं लघुकं वा यथाप्राप्तं स्यात् । तथा सझोषमितरता अझोषम्, यथापात्रं सहासहादिपुरुषविशेषरूपं पात्रमपेक्ष्य प्रायश्चित्तं दीयते ।।२६९।। अथ तपःकालाभ्यां लघुगुरु प्रायश्चित्तं यदुच्यते तत्स्वरूपं प्ररूपयति
छटुंतं तव लहुमट्ठमाइ तव गुरु जमुज्झई गिम्हे । तं लहुमवि कालगुरु गुरु वि लहुअं सिसिरवासे ।।२७०।।
(सड्डजीयकप्पो १२४)