________________
जइ - जीयकप्पो व्याख्या-लघुपक्षे लघुमासाख्योत्कृष्टापत्तौ उत्कृष्टोत्कृष्टं दशमम्, उत्कृष्टमध्यममष्टमम्, उत्कृष्टजघन्यं षष्ठम्। भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमम्, मध्यममध्यमं षष्ठम्, मध्यमजघन्यं चतुर्थम् । विंशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टं षष्ठम्, जघन्यमध्यमं चतुर्थम्, जघन्यजघन्यमाचामाम्लम् । इत्यमुनाप्रकारेण लघुपक्षे क्रमेण दानतपो नवविधमुक्तम् । एतच्च दानतपो वर्षास्ववगन्तव्यम् । पूर्वगाथोक्तमपि अग्रेतनगाथोक्तमपि च ।।२६५।। अथ लघुकपक्षे दानतपो दर्शयति -
अट्ठमछट्ठचउत्थं छट्टचउत्थंबिलं लहुसपक्खे । तह खवणबिलआसण इअ अड्डक्कति सगवीसा ।।२६६।।
(गु०वि० २/२८७, सडजीयकप्पो १३४) व्याख्या-लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तौ उत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यमं षष्ठम्, उत्कृष्टजघन्यं चतुर्थम् । दशकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यमं चतुर्थम् , मध्यमजघन्यमाचामाम्लम् । पञ्चकाख्यजघन्यापत्तो जघन्योत्कृष्ट चतुर्थम्, जघन्यमध्यममाचामाम्लम् , जघन्यजघन्यमेकाशनकमित्येवम पक्रान्त्या सप्तविंशतिविधं दानतपो वर्षाविषयं प्रदर्शितम् ।।२६६।। अथ शिशिरग्रीष्मविषयं दानतपोऽतिदेशेनाह
दसमाई पुरिमंता सिसिरे (२७) गिम्हट्टमाइ निविअंता (२७) । असहे इक्किक्क हासो जा पंतिसु अंति इक्किक्कं ।।२६७।।
(सडजीयको १३५) व्याख्या-एवं यथा वर्षासु उत्कृष्टाद्यापत्तिनवके सति दानतपसो द्वादशमादौ कृत्वा एकासनान्ताः सप्तविंशतिर्भेदाचारणिकया कृताः, तथा शिशिरेऽपि, केवलं दशममादौ कृत्वा पुरिमार्द्धान्ताः । ग्रीष्मे पुनरष्टममादौ कृत्वा निर्विकृत्यन्ताः सप्तविंशतिर्भेदाः कार्याः यन्त्रकस्थापनातश्च ज्ञेयाः । वर्षाशिशिरग्रीष्माणां सप्तविंशतित्रयमिलने चैकाशीतिर्दानतपसो भेदा भवन्ति । अर्द्धापक्रान्तिश्चेयं-अर्द्धस्य असमप्रविभागरूपस्य एकदेशस्य एकादिपदात्मकस्यापक्रमणं निवर्त्तनं शेषस्य तु व्यादिपदसंघातात्मकस्यैकदेशस्यानुवर्तनं यस्यां रचनायां सा समयपरिभाषया अर्धपक्रान्तिरुच्यते । यथा वर्षासु गुरुतमे उत्कृष्टतो द्वादशमम् , मध्यमतो दशमम् , जघन्यतोऽष्टमम्, एषां मध्यादेकदेशो द्वादशलक्षणोऽपक्रामति, दशमाष्टमे गुरुतरं गच्छतः अग्रेतनं च षष्ठं मील्यते । ततश्च गुरुतरे उत्कृष्टतो दशमम्, मध्यमतोऽष्टमम् , जघन्यतः षष्ठम् । एषां मध्यादेकदेशो दशमलक्षणो निवर्त्तते अष्टमषष्ठे गुरुकं गच्छतः अग्रेतनं चतुर्थं मील्यते । ततश्च गुरुके उत्कृष्टतोऽष्टमं मध्यमतः षष्ठं जघन्यतश्चतुर्थमिति । यथा चेयमेकाशीतिके दानतपोयन्त्रके वर्षाद्ये नवकेऽर्द्धापक्रान्तिर्दर्शिता, तथैव सर्वेष्वपि नवकेषु विलोकनीया । एतैर्दानैरापत्तयः स्वकाः स्वका नियमात् सर्वा बोद्धव्याः । एवंविधापत्तिषु च द्वादशाद्यं तपः कर्तुमसहिष्णोरेकैकहासः तावत् कार्यो यावन्नवस्वपि पङ्क्तिषु पर्यन्तकोष्टकगतमेकैकं चतुर्थादि निर्विकृतिकान्तं तपः स्थितम् । ततः तत्तस्य दीयते ।।२६७।।