________________
जइ - जीयकप्पो द्विमासिकगुरुमासरूपा जघन्या । लघुपक्षे लघुमास उत्कृष्टः । भिन्नमासो मध्यमः । विंशतिकं जघन्यम् । लघुकपक्षे पञ्चदशकमुत्कृष्टम् । दशकं मध्यमम् । पञ्चकं जघन्यमित्येवं नवविधापत्तितपोरूपः श्रुतव्यवहारो दर्शितः । भणितं चगुरुपक्खो उक्कोसो मज्झ जहन्नो अ एव लहुए वि । एमेव य लहुसे वी इअ एसो नवविहो होइ ।। गुरुपक्खे छम्मासो पणमासो चेव होइ उक्कोसो। मझो चउतिमासो दुमासगुरुमासग जहन्नो ।। लहु-भिन्नमास-वीसा लहुपक्खुक्कोस मज्झिम जहन्ना । पनरस दसगं पणगं लहुसुक्कोसाइ तिविहेसो ।। आवत्तितवो एसो नवभेओ वण्णिओ समासेण । अहुणा उ सत्तवीसो दाणतवो तस्सिमो होइ' ।। तस्यापत्तितपसो नवविधस्य दानतपस्त्रिविधमुत्कृष्टमध्यमजघन्यलक्षणं सप्तविंशतिभेदं भवति । तच्च कालत्रिकेण वर्षाशिशिरग्रीष्मलक्षणेन विचार्यमाणमेकाशीतिभेदं भवति । तत्र गुरुपक्ष एकोऽपि नवधा । तद्यथा-उत्कृष्टोत्कृष्टः १ । उत्कृष्टमध्यमः २ । उत्कृष्टजघन्यः ३ । मध्यमोत्कृष्टः ४ । मध्यममध्यमः ५ । मध्यमजघन्यः ६ । जघन्योत्कृष्टः ७ । जघन्यमध्यमः ८ । जघन्यजघन्यश्चेति ९ एवं लघुपक्षोऽपि नवधा ।९। लघुकपक्षोऽपि चैवमेव नवधा ९। सर्वमीलने सप्तविंशतिभेदा भवन्ति । भणितं चगुरुलहुलहुसगपक्खे इक्किक्को नवविहो मुणेअव्वो । उक्कोसुक्कोसो वा उक्कोसो मज्झिमजहन्नो ।। मझुक्कोसो मज्झिममझो तह होइ मज्झिमजहन्नो । इअ नेउ जहन्नो वि अ उक्कोसो मज्झिम जहन्नो ।। गुरुपक्खे नव एए नव चेव य हुंति लहुअपक्खे वि । नव चेव लहुसपक्खे सत्तावीसं भवंतेए' ।। ।।२६३ ।। अथैतेषु गुरुलघुलघुकलक्षणेषु त्रिषु पक्षेषु सप्तविंशतिविधं दानतपो व्यक्तीकरोति
तहिं बारसदसममट्ठम जिट्टे मज्झि दसमट्ठमा छठें । अट्ठमछट्ठचउत्थं जहन्न तिगि दाण गुरुपक्खे ।।२६४।।
(गु०वि० २/२८५, सट्टजीयकप्पो १३२) व्याख्या-तत्र पक्षत्रये क्रमेण दानतपः प्रतिपाद्यते, यथा-इह गुरुपक्षे पाण्मासिकपञ्चमासिकाख्योत्कृष्टापत्तौ सत्यामुत्कृष्टोत्कृष्टं द्वादशं तपः, उत्कृष्टमध्यमं दशमम्, उत्कृष्टजघन्यमष्टमम् । चातुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं दशमम् , मध्यममध्यममष्टमम् , मध्यमजघन्यं षष्ठम् । द्विमासिकगुरुमासाख्यजघन्यापत्तो जघन्योत्कृष्टमष्टमम् , जघन्यमध्यमं षष्ठम् , जघन्यजघन्यं चतुर्थम् । एवं गुरुपक्षे नवधा दानतपः प्रोक्तम् ।।२६४।। अथ लघुपक्षे दर्शयति
इअ दसमट्ठमछट्ठा अट्ठमछट्ठाचउत्थया कमसो । छट्टचउत्थायामा लहुपक्खे दाण वासासु ।।२६५।।
(सट्टजीयकपो १३३)