________________
जई - जीयकप्पो
निविअपुरिमासणंबिल इगबितिचउपंचखमण नवह तवो । सुअववहारुवएसा विभागजो
ओहेण
चेव ।। २५९।।
(सड्डजीयकप्पो १२७)
व्याख्या–निर्विकृतिकं १ पुरिमार्द्धम् २ एकासनं ३ आचामाम्लम् ४ एकक्षपणं चतुर्थं ५ द्वे क्षपणे षष्ठं ६ त्रीणि क्षपणानि अष्टमं ७ चतुः क्षपणानि दशमं ८ पञ्च क्षपणानि द्वादशं ९ श्रुतव्यवहारोपदेशादेवं तपो नवधा ओघतो विभागतश्च ग्रीष्मशिशिरवर्षासु दीयत इति नवधा तपोदानश्रुतव्यवहारः ।। २५९। अथ यथोद्देशं निर्देश' इति न्यायात् पूर्वं पक्षत्रयं स्पष्टयन्नाह—
गुरु लहु लहुस ति पक्खा पिहो तिहाऽतिगुरु गुरुतरो गुरुओ । लहुतमलहुतरलहुओ लहुसतो लहुसतर लहुसो ।। २६०।। ( गु०वि० २ / २८२, सड्डजीयकप्पो १२८ ) व्याख्या - एष नवविधतपोव्यवहारः संक्षेपतस्त्रिधा - उत्कृष्टो मध्यमो जघन्यश्च । तत्र गुरुतम गुरुतरगुरुरूपभेदत्रयात्मको गुरुपक्ष उत्कृष्टः । लघुतम - लघुतर - लघुरूपभेदत्रयात्मको लघुपक्षो मध्यमः । लघुस्वतमलघुस्वतर- लघुस्वाख्यत्रिभेदो लघुस्वपक्षो जघन्य इति । यदाह—
भवविहववहारे सो संखेवेणं तिहा मुणेअव्वो । उक्कोसो मज्झिमगो जहन्नगो चेव तिविहो सो ।। उक्कोसो गुरुपक्खो लहुपक्खो मज्झिमो मुणेअब्बो । लहुसपक्खो जहन्नो तिविगप्पो एस नायव्वो' ।। इदानीं प्रकृतगाथाक्षरार्थः- गुरु १ लघु २ लघुस्वः ३ लघुस्वशब्दश्च लघुकार्थः । स्वशब्दास्याल्पार्थकप्रत्ययार्थत्वादित्येते त्रयः पक्षाः पृथक् प्रत्येकं त्रिधा भवन्ति । त्रैविध्यं च दर्शितमेव ।। २६०।। अथ नवविधापत्तितपोव्यवहारं दर्शयति
गुरुलहुअ छपणमासा चउतिगमासा दुमासगुरुमासो । लहुमासभिन्नवीसं पनरसदसपण तिपक्खकमा ।। २६१।।
( गु०वि० २ / २८३, सड्डजीयकप्पो १२९) उक्कोसमज्झहीणा आवत्ती नवति दाण कालतिगे । उक्कोसुक्कोसुक्कोसमज्झ उक्कोसग जहन्ना ।। २६२।। मज्झुक्कोसा मज्झिमगमज्झिमा तहय मज्झिमजहन्ना । जहन्नुक्कोस जहन्नगमज्झा य जहन्नगजहन्ना ।। २६३ ।।
(सजीयकप्पो १३०-१३१) व्याख्या - तेषु त्रिषु पक्षेषु गुरुलघुलघुकलक्षणेषु । एता आपत्तय उत्कृष्टमध्यमजघन्यरूपाः क्रमादवगन्तव्याः । तथाहि - गुरुपक्षे गुरुलघु षाण्मासिकपञ्चमासिकरूपा उत्कृष्टापत्तिः । चातुर्मासिकत्रिमासिकरूपा मध्यमा ।