________________
जइ - जीयकप्पो उक्तमेवार्थं दृढयन्नाह
इअ दवाइ बहुगुणे गुरुसेवाए अ बहुतरं दिज्जा ।
हीणयरे हीणयरं हीणयरे जाव झोसु त्ति ।।२५५ ।। व्याख्या-इति अमुना प्रकारेण द्रव्यादौ द्रव्यक्षेत्रकालभावाख्ये प्रतिसेव्ये बहुगुणे बहुगुणिते प्रचुरदोषत्वेन समर्थे वा, विपरीतलक्षणया वा बहुदोषे गुरुसेवायां गुरुतरायां प्रतिसेवायां कृतायां बहुतरं प्रायश्चित्तं दद्यात् । हीनतरे ऽल्पदोषे द्रव्यादिके प्रतिसेविते हीनतरमल्पतरं प्रायश्चित्तं दद्यात् । ततोऽपि हीनतरे यावत्सर्वहीनेऽत्यल्पदोषे द्रव्यादौ अत्यल्पीयस्यां सेवायां झोसु' त्ति । क्षपणा हासः कार्यः । सर्वस्तोकं तपो देयमित्यर्थः ।२५५ ।। कुत्रापि च सर्वथापि हासः क्रियत इति प्रतिपादयन्नाह
झोसिज्जइ सुबहुं पि हु जीएणन्नं तवारिहं वहओ।
वेआवच्चगरस्स उ दिज्जइ साणुग्गहतरं वा ।।२५६।। व्याख्या-इह जीतेन यद्येकगुरुभिर्वितीर्णं पाण्मासिकादितपो वहतः पञ्च-षट्स्वपि दिवसेषु गतेष्वन्यच्चातुर्मासिकं षाण्मासिकं वा तपोहँ समापन्नं ततः तत्क्षिप्यते सुबहुकमपि हास्यते, सर्वथापि तस्य न दीयत इत्यर्थः । वैयावृत्त्यकरस्य च सानुग्रहतरं वा दीयते । कोऽर्थः ? यावन्मात्रं तपस्तप्यमानः स वैयावृत्त्यं कर्तुं शक्नोति तस्य तावन्मात्रमेव तपो दीयते नाधिकम् ।।२५६।। अथ पूर्वोपन्यस्तनवविधश्रुतव्यवहारं विभागतो दिदर्शयिषुारभूतां गाथामाह
ति नव सगवीस इगसी पक्खे आवत्तिदाण कालतिगे ।
नवतवसुअववहारो जते दसरेहि तिरिउड्डे ।।२५७।। व्याख्या–अत्रैष नवविधतपोदानलक्षणश्रुतव्यवहारस्त्रिभिर्नवभिः सप्तविंशतिभिरेकाशीतिभिश्च भेदैर्भवति । तत्र संक्षेपतः तावदयं त्रिभेदः पक्षत्रयभेदात् । आपत्तिभेदतः पुनर्नवभेदः । दानतपोभेदतस्तु सप्तविंशतिभेदः। कालत्रिकविशेषेण पुनरेकाशीतिभेदश्च भवति । एतेषां च सर्वेषामपि भेदानां स्वरूपं ग्रन्थकारः स्वयमेव पुरस्ताद् व्यक्तीकरिष्यति । एवंविधभेदभिन्नश्च नवविधतपोदानलक्षणश्रुतव्यवहारः तिर्यगूधं च दशरेखे यन्त्र स्थापितः सुखावसेयो भवतीति सकलभेदप्रतिपादनानन्तरं तत्स्थापनापि दर्शयिष्यते ।।२५७।। तत्र पूर्वं नवविधतपोदानश्रुतव्यवहारमेव दर्शयन्नाह
उववासछट्टअट्ठम जहन्न छट्टट्ठमादसम मज्झा । अट्ठमदसमदुवालस जिट्ट तिकाले तवो नवहा ।।२५८ ।।
(सड्डजीयकप्पो १२६) व्याख्या-उपवासषष्ठाष्टमानि जघन्यानि । षष्ठाष्टमदशमानि मध्यमानि । अष्टमदशमद्वादशानि उत्कृष्टानि । कालत्रये ग्रीष्मशिशिरवर्षालक्षणे क्रमेण तपांसि नवधा देयतया अवगन्तव्यानि । एष नवविधतपोदानश्रुतव्यवहारः प्रोच्यते ।।२५८।। अथवा एष नवविधतपोदानश्रुतव्यवहारः