________________
जइ - जीयकप्पो छिन्नमडम्बादिकं स्तोकलोकाश्रयं सार्द्धयोजनं यावदविद्यमानवसत्प्रदेशं यत्र सम्पूर्णा भिक्षा न लभ्यते । कालो दुर्भिक्षादिर्यत्र सर्वथाऽन्नादिर्न प्राप्यते । तं प्रतिसेवेत । अयमाशयः-साधुना महति क्षेत्रे काले च गत्वा स्थेयम्। आकुट्टिकादिभिर्हि छिन्नमडम्बादिकं क्षेत्रं दुष्कालं च प्रतिसेवमानः संयमात्मविराधने प्राप्नुवन् (? प्राप्नोति) । भावं च हृष्टग्लानत्वादिकं प्रतिसेवते । आकुट्टिकादिभिरहिताऽन्नौषधादिकं भुक्त्वा ग्लानत्वादिकं भावमुत्पादयेदित्यर्थः ।।२५१।। उक्ताः स्वरूपतः प्रतिसेवनाः । तासां प्रायश्चित्तमाह
जं जीअदाणमुत्तं एअं पायं पमायसहिअस्स ।
इत्तो च्चिअ ठाणंतरमेगं वड्डिज्ज दप्पवओ ।।२५२।। व्याख्या-यज्जीतदानं जीतव्यवहारे तपोदानमुक्तम् । एतत्सर्वं प्रायः प्रमादसहितस्य प्रमादप्रतिसेवनाप्राग्गाथाविवरणव्याख्यातद्रव्यादिसेविनो भणिताः । इत एव प्रमादप्रतिसेवकप्रायश्चित्तादेकं स्थानान्तरं वर्धयत् दर्पवतः । अयमर्थः- प्रमादप्रतिसेवनया भिन्नमास-लघुमास-गुरुमास-चतुर्लघु-चतुर्गुरु-षड्लघु-षड्गुरूणामापत्तौ निर्विकृतिकपुरिमा?कासनाचामाम्लचतुर्थषष्ठाष्टमाख्यं तपो दीयते । दर्पप्रतिसेवनाकारिणस्तु भिन्नमासादीनामापत्तौ सत्यां स्थानान्तरवृद्धिः कार्या । निर्विकृतिकं मुक्त्वा पुरिमार्द्धादीनि दशमान्तानि देयानीति ।।२५२।।
आउट्टिआइ ठाणंतरं व सठाणमेव वा दिज्जा ।
कप्पेण पडिक्कमणं तदुभयमहवा विणिद्दिष्टुं ।।२५३ ।। व्याख्या-आकुट्टिकाप्रतिसेवायां साधोः स्थानान्तरं वा दद्यात् । दर्पप्रतिसेवाकारिणः सकाशात् स्थानवृद्ध्याधिक तपःस्थानं वितरेत् । दर्पप्रतिसेविनो हि भिन्नमासाद्यापत्तौ पुरिमा दीनि दशमान्तानि दीयन्ते । अस्य त्वेकासनादीनि द्वादशान्तानि देयानि । स्वस्थानमेव' वा दद्यात् । इहापत्तिरूपं प्रायश्चित्तं स्वस्थानमुच्यते । यथाऽऽकुट्टिकया पञ्चेन्द्रियवधे मूलम् । अन्यत्रापि चाकुट्टिकया यत्रापराधे यद् भिन्नमासादिकमुक्तं तत्तत्र स्वस्थानं तदेवाकुट्टिकाप्रतिसेविनो दद्यादित्यर्थः । कल्पेन कल्पप्रतिसेवनया प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तम् । अथवा तदुभयम् आलोचनामिथ्यादुष्कृतोभयरूपं प्रायश्चित्तं विनिर्दिष्टम् ।।२५३।। इदं चोक्तस्वरूपं प्रायश्चित्तं परिणामानुरूपेणैव दद्यादित्याह
आलोअणकालंमि वि संकेस-विसोहिभावओ नाउं । हीणं वा अहिअं वा तम्मत्तं वा वि दिज्जाहि ।।२५४ ।।
(गु०वि० २/३३४) व्याख्या-आलोचनाकालेऽपि कमप्यपराधविशेषं यः सर्वथा न प्रकाशयति कथयन्नप्यर्द्धकथितं वा करोति स सक्लिष्टपरिणाम इति ज्ञात्वा तस्याधिकमपि दद्यात् । यः पुनः संवेगमुपगतो निन्दागर्हादिभिर्विशुद्धपरिणामः तस्य हीनमपि दद्यात् । यः पुनर्मध्यस्थपरिणामः तस्य तन्मात्रमेव दद्यात् ।।२५४।।
A. आकुट्टिकादिभिः अहितकारि