Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 199
________________ जइ - जीयकप्पो अच्चंतोसन्नेसु अ परलिंगदुगे अ मूलकम्मे अ। भिक्खुंमि अ विहिअतवेऽणवट्ठपारंचियं पत्ते ।।२८०।। छेएण उ परिआएऽणवठ्ठपारंचिआवसाणे अ। मूलं मूलावत्तिसु बहुसो अ पसज्जओ भणियं ।।२८१।। (चतुर्भिः कलापकम् ) व्याख्या-आकुट्टिकया पञ्चेन्द्रियघाते मैथुने च दर्पण सेविते सतीवादमस्या नाशयामीतिबुद्ध्या स्त्रीसेवनायां । शेषेषु च मृषावादाऽदत्तादानपरिग्रहेषु त्रिष्वप्याकुट्टिकया उत्कर्षतोऽभीक्ष्णं वा पुनः पुनरासेवनादिषु आदिशब्दादाकुट्टिकया पञ्चानामप्येषां कारणानुमत्योश्च मूलम् । तथा तपोगर्वितादिषु तपोगर्वित-तपोऽसमर्थ तपोऽश्रद्दधान-तपोऽदम्यमानेषु बहुशो मूलोत्तरदोषव्यतिकरगतेषु । मूलगुणा उत्तरगुणाश्च बहुप्रकारास्तेषां दोषा दूषणं भङ्गकरणं तस्य व्यतिकरः सम्पर्कस्तं गतेषु बहुशो मूलोत्तरगुणभङ्गकारिष्वित्यर्थः । वान्तदर्शनचारित्रे इह दर्शने वान्ते नियमाच्चारित्रं वान्तमेव । चारित्रे पुनन्तेि दर्शने भजना-वान्तचारित्रोऽपि कोऽपि दर्शनं वमति, कोऽपि न वमति । ततो वान्तदर्शने वान्तचारित्रे च । त्यक्तानि कृत्यानि दशविधचक्रवालसामाचारीरूपाणि सर्वाणि येन स त्यक्तकृत्यस्तस्मिन् । शैक्षे च नवदीक्षितेऽनुपस्थापिते एतेषु सर्वेषु मूलम् । तथा अत्यन्तावसन्नेषु च । अवसन्ना एव प्रवाजिताः संविग्नैर्वा प्रवाजितमात्रा एवावसन्नतया विहृतास्तेऽत्यन्तावसन्नास्तेषु । परलिङ्गद्विके । परलिङ्गं गृहस्थलिङ्गं कच्छाबन्धनादिगृहस्थवेषरूपम् अन्यतीर्थिकलिङ्गं च तापसादिवेषरूपम् । तयोराकुट्टिकया दर्पण वा स्वयं करणे, मूलकर्मणि च औषधादिना स्त्रीणां गर्भाधानशाटनकरणरूपे । भिक्षौ च विहिततपसि । विहितं-दत्तं गुरुभिस्तपोरूपप्रायश्चित्तं यस्य तस्मिन् । एवमङ्गीकृततपःप्रायश्चित्ते पुनरपि छेदमूले अतिक्रम्य तथाविधाऽतिचारसेवनयाऽनवस्थाप्यं पाराञ्चिकं वापि प्राप्ते मूलम् । कोऽर्थः ? भिक्षोनवमदशमप्रायश्चित्तापत्तावपि मूलमेव प्रायश्चित्तं भवति । आचार्योपाध्याययोस्तु पाराञ्चिकापत्तावप्यऽनवस्थाप्यमेव । यदुक्तं भाष्येइत्थ य जह नवदसमे आवन्नस्सा वि अ भिक्खुणो मूलं । दिज्जइ तहाभिसेगे परं पयं होइ नवमं तु' ।। अभिषेकशब्देनाचार्योपाध्यायौ उच्येते, परमत्राचार्यस्याकृतकरणस्योपाध्यायस्य तु कृतकरणस्यैतत् ज्ञेयम् । कृतकरणस्याचार्यस्यान्त्यप्रायश्चित्तप्रतिपत्तिभणनात् । तथा छेदेन पुनःपुनरतीचारमाश्रित्य क्रियमाणेन व्रतपर्याय निरवशेषेऽपि छिन्ने इति शेषः मूलम् । अनवस्थाप्यपाराश्चिकयोरनुष्ठितयोरनन्तरं पुनस्तथाविधाऽतिचारसेवनया तदापत्तावपि मूलमेव दीयते । मूलापत्तिषु उपचारान्मूलापत्तिकारणेष्वतिचारेषु बहुशश्च प्रसजतः पुनः पुनः प्रसक्तिं कुर्वाणस्य मूलम् । एतेषु यथोक्तस्थानेषु सर्वेषु मूलं प्रायश्चित्तं भणितम् ।।२७८-२७९-२८०-२८१।।

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226