Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 196
________________ जई - जीयकप्पो दद्यात् स्तोकत्वात्तत्र तासु स्थापनास्वारोपणासु चैको मासो द्रष्टव्यः । दिणा उ ते चेव' त्ति । न तान्येव यान्युपात्तानि । न पुनर्माससङ्ख्यां द्विरूपसहितां कृत्वा पञ्चभिश्च गुणयित्वा दिनान्यानेतव्यानीति भावः । अथ यत्रोत्कृष्टा स्थापनारोपणा वा स्थापनारोपणाभ्यामेव षण्णां मासानां परिपूर्णभवनात् । ठेवणारोवणदिवसे माणाउ विसोहइत्तु जं सेस' (उपर्युक्ता व्य. सू. ३६९ गाथा) मित्यादिकरणं न प्रवर्त्तते, तदप्रवृत्तौ च कथं सञ्चयमाससङ्कलनं कर्तव्यम् ? तत आह उक्कस्सारूवणाणं मासा जे हुंति करणनिद्दिट्ठा । ते ठवणामासजुआ संचयमासाउ सब्बासिं' ।। ( व्य० सू० ३८१ ) ? सर्वासामुत्कृष्टानामारोपणानां ये मासा भवन्ति करणनिर्दिष्टाः दिवसा पंचहिं भइआ' (उपर्युक्ता व्य. सू. ३७३ गाथा) इत्यादिना आरोपणाकरणेन निर्द्दिष्टास्ते स्थापनामासयुताः स्थापनायां करणवशतो लब्धा मासास्तैः संयुक्ताः सञ्चयमासा द्रष्टव्याः । यथा विंशिकायां स्थापनायां षष्टदिनशतायामारोपणायां द्वात्रिंशन्मासाः । तथाहि - स्थापनायां द्वौ मासौ लब्धौ तौ च प्रागेव भावितौ आरोपणायाः पञ्चभिर्भागो ड्रियते, लब्धा द्वात्रिंशत् सा द्विरूपहीना क्रियते, जाताः त्रिंशत् । स्थापनामासौ तत्र प्रक्षिप्तावागतं द्वात्रिंशत् प्रतिसेविता मासाः । अथात्र कुतो मासात् किं गृहीतम् ? उच्यते - द्वौ द्वात्रिंशतः सञ्चयमासेभ्यः स्थापनामासौ शोध्येते । स्थिता त्रिंशन् मासास्त्रिंशता मासैर्निष्पन्नास्त्रिंशद्भागाः क्रियन्ते । आगत एकैकस्मिन् भागे एकैको मासः । तत्र प्रथमभागः पञ्चदशभिर्गुण्यते जाताः पञ्चदश, शेषा एकोनत्रिंशत् पञ्चभिर्गुण्यन्ते जातं पञ्चचत्वारिंशं शतं १४५ । उभयमीलने षष्टं शतम् १६० । अत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातमशीतं शतम् । आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश दिवसा गृहीताः । एकस्मात् पञ्चदश, शेषेभ्यः पञ्च पञ्चेति । एवं सर्वत्र भावनीयम् । श्रीवर्द्धमानतीर्थे च षाण्मासिकमेवोत्कृष्टं तपो दातव्यं नाधिकम् । यदुक्तम् बारस अट्ठ य छक्कग माणं भणिअं जिणेहिं सोहिकरं । तेण परं जे मासा संहणंता परिसडंति' ।। ( व्य० सू० ४०२, नि०भा० ६४६६) मीयते परिच्छिद्यते वस्त्वनेनेति मानम् । तत् द्विधा - द्रव्ये भावे च । तत्र द्रव्येषु प्रस्थकादिषु, भावतः पुनरिदं मानं प्रायश्चित्तमानं जिनैस्तीर्थकृद्धिस्त्रिविधं शोधिकरं भणितम् । तद्यथा - प्रथमतीर्थकरस्य द्वादश मासाः, मध्यमतीर्थकृतामष्टौ मासाः, वर्द्धमानस्वामिनः षट्कं षण्मासाः । इतोऽधिकं न दीयते किन्तु बहुष्वपि प्रतिसेवितेषु मासेष्वेतावन्मात्रमेव । अत्र प्रस्थकदृष्टान्तो यथा - प्रस्थकेन मीयमानं तावन्मीयते यावत्प्रस्थकस्य शिखा परिपूर्णा भवति । ततः परमधिकमारोह्यमाणमपि परिपतति । एवं षण्णां मासानामधिकं यद्यपि प्रतिसेवितं तथापि तत् स्थापनारोपणाप्रकारेण संहन्यमानं परिशटति । तथा चाह- सेण पर' मित्यादि । तत उक्तरूपात् षण्मासादिकान् मानात् घर' मित्यव्ययं ये मासास्ते स्थापनारोपणाप्रकारेण संहन्यमानाः संघात्यमानाः

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226