Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 194
________________ जइ - जीयकप्पो अस्यां स्थापनायामस्यां चारोपणायामेतावन्तः सधयमासाः सर्वप्रायश्चित्तसङ्कलनमासा भवन्ति । अथ तस्यां स्थापनायामारोपणायां च सञ्चयमासानां मध्ये कुतो मासात् किं गृहीतम् ? अत्र करणमाह ठवणामासे ततो सोहे' । ततः सञ्चयमाससङ्ख्यातः स्थापनामासान् शोधयेत् । शोधिते च सतिदिवसेहिं जइहिं मासो निष्फन्नो हवइ सव्वरुवणाणं । तइहिं गुणिआउ मासा ठवणादिणजुआउ छम्मासा' ।। (व्य०सू० ३७५) सर्वासामारोपणानां यतिभिर्दिवसैर्मासो भवति निष्पन्नस्ततिभिर्गुणितास्ते कर्तव्याः । पुनः स्थापनादिनयुक्तास्ततस्ते षण्मासा भवन्ति । यथा प्रथमायां स्थापनायामारोपणायां च त्रयोदश सञ्चयमासास्तेभ्यः स्थापनामासौ द्वौ शोधितौ स्थिता एकादश । अत्रारोपणायामेको मासः, स च पञ्चदशभिर्दिननिष्पन्न इति ते एकादश पञ्चदशभिर्गुण्यन्ते । जातं पञ्चषष्टं शतं । ततो विंशतिदिवसाः स्थापनासत्काः प्रक्षिप्यन्ते । जातं पञ्चाशीतं शतं पञ्चझोष इति ते त्यक्ताः । जाताः षण्मासाः । आगतं द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि । शेषेभ्यस्त्वेकादशेभ्यः पञ्चदश पञ्चदश दिनानि । केवलं तन्मध्यात् पञ्चझोषः कृतः पञ्च दिनानि त्यक्तानीति भावः । एतान्येव च प्राक् राशिसमकरणार्थं प्रक्षिप्तानीति समकरणः प्रक्षेपणीयो राशिोषशब्देनोक्तः। एवं सर्वत्र झोषभावना ज्ञेया । तथा विशिकायां स्थापनायां विशिकायां चारोपणायामष्टादश किल सञ्चयमासाः तेभ्यो द्वौ स्थापनामासौ शोधितौ । जाताः षोडश । अत्र विंशतिदिनारोपणा द्विमासेत्येकैको मासो दशभिर्दिनैर्निष्पन्नः, ततस्ते षोडश दशभिर्गुण्यन्ते । जातं षष्टं शतं १६० । ततः स्थापनादिवसा विंशतिः प्रक्षिप्यन्ते । जातमशीतिशतम् । आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः । शेषेभ्योऽपि षोडशेभ्यो गात्रतो दश दशेति । तथा विशिकायां स्थापनायां पञ्चविंशतिकायां चारोपणायां त्रयोविंशतिः सञ्चयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ । जाता एकविंशतिः । पञ्चविंशतिदिनारोपणा त्रिभिर्मासैर्निष्पन्नेत्येकैको मासः स त्रिभागैरष्टभिर्दिनैर्निष्पन्नस्तत एकविंशतिरष्टभिर्दिनैर्गुणिता जातमष्टषष्टं शतं त्रिभागगुणने च लब्धाः सप्त तेपि तत्र प्रक्षिप्यन्ते । जातं पञ्चसप्ततं शतं तत्र विंशतिः स्थापनादिवसाः प्रक्षिप्यन्ते। जातं पञ्चनवतं शतं १९५। तत्र पञ्चदश दिनानि झोष इति तान् अपनीयन्ते जातमशीतं शतम् । आगतमत्र द्वाभ्यां स्थापनीकृतमासाभ्यां दश दश दिवसा गृहीताः, शेषेभ्यस्त्वेकविंशतिमासेभ्यो गात्रतोऽष्टावष्टौ दिवसाः सत्रिभागाः, केवलं तत्रापि पञ्चदश दिनानि झोषीकृतानि । तदेवं स्थापनातः शेषमासेभ्य गात्रतो यत् गृहीतं तत्प्रतिपादितम् ।। अधुना शेषमासेभ्यो यद् येभ्यो विशेषतो गृहीतं तत्प्रतिपादनार्थं करणमाहरुवणाए जइ मासा तइभागं तं करे तिपंचगुणं । सेसं च पंचगुणिअं ठवणादिवसाजुआ दिवसा' ।। (व्य०सू० ३७६) स्थापनामासेषु शोधितेषु यच्छेषमवतिष्ठते तत आरोपणायां यति मासाः ततिभागं तावत्सङ्ख्याकभागं

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226