Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 191
________________ जइ - जीयकप्पो स्थापनास्थाने पञ्चदशदिना प्रथमा, द्वितीया विंशतिदिना, तृतीया पञ्चविंशतिदिना, एवं पञ्चकवृद्ध्या तावन्नेतव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा त्रयस्त्रिंशत्तमा स्थापना । तृतीय स्थाने प्रथमा पञ्चदिना, द्वितीया दशदिना, पञ्चदशदिना तृतीया, एवं पञ्चोत्तरवृद्ध्या तावन्नेतव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा पञ्चत्रिंशत्तमा स्थापना । चतुर्थे स्थाने प्रथमा एकदिना, द्वितीया द्विदिना, तृतीया त्रिदिना, चतुर्थी चतुर्दिना, एवमेकोत्तरवृद्ध्या तावन्नेतव्यं यावदेकोनाशीत्यधिकशतदिनप्रमाणा एकोनाशीतिशततमा स्थापना । एवमारोपणाया अपि प्रथमे स्थाने पञ्चदशदिना विंशतिदिना, पञ्चविंशतिदिना. एवं पञ्चकवद्ध्या तावज्ज्ञातव्यं यावत् षष्ट्यधिकशतदिनप्रमाणा त्रिंशत्तमा आरोपणा । द्वितीयस्थाने पञ्चदिना प्रथमा । दशदिना द्वितीया । पञ्चदशदिना तृतीया । एवं पञ्चकवृद्ध्या तावत् ज्ञेयं यावत् पञ्चषष्ट्यधिकशतदिनप्रमाणा त्रयस्त्रिंशत्तमाऽऽरोपणा। तृतीयेऽपि स्थाने पञ्चदिना प्रथमा । दशदिना द्वितीया । पञ्चदशदिना तृतीया, एवं पञ्चकवृद्ध्या तावद् गन्तव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा पञ्चत्रिंशत्तमाऽऽरोपणा । चतुर्थे पुनरारोपणास्थाने स्थापना चतुर्थस्थानवदेकोनाशीतिशतप्रमाणान्यारोपणास्थानान्यवगन्तव्यानि । विंशतिदिनादिकासु च स्थापनासु पाक्षिक्यादिका आरोपणाः प्रत्येक योज्याः । एवं पाक्षिक्यादिकासु स्थापनासु पञ्चाहिकादिका आरोपणाः प्रत्येकं योज्याः । पञ्चाहिकादिस्थापनासु पञ्चाहिकाद्या आरोपणा, एकाहिकादिस्थापनासु पुनरेकाहिकाद्या आरोपणा योजनीयाः । एवं स्थापनारोपणानां परस्परं संवेधतोऽनेके भङ्गा भवन्ति । ते च स्वयं निशीथव्यवहारतो ज्ञेयाः । स्थापनारोपणयोश्च सर्वत्र वृद्धिः तावती कार्या यावत्या उभयमीलने षण्मासाः पूर्णा भवन्ति नाधिकम् ।। अथ का स्थापना आरोपणा च कतिषु मासेषु प्रतिसेवितेषु द्रष्टव्या ? इत्येतत्परिज्ञानार्थमाहठवणारोवणदिवसे माणाउ विसोहइत्तु तु जं सेसं । इच्छिअरूवणाए भए असुज्झमाणे खिवइ झोसं'।। (व्य०सू० ३६९) मानात् षण्णां मासानां दिवसपरिमाणात् अशीत्यधिकशतरूपात् विवक्षितायाः स्थापनाया विवक्षितायाचारोपणाया ये दिवसाः तान् विशोधयेत् । विशोध्य च यच्छेषमुपलभ्यते तत् ईप्सितया अधिकृतया आरोपणया भजेत् भागं हियात् । भागे च हृते यदि राशिर्निर्लेपः शुध्यति । ततो न किमपि प्रक्षिप्यते, केवलं सारोपणा कृत्स्नेति व्यपदिश्यते । यदि पुनर्निर्लेपो न शुद्ध्यति ततः क्षिपति झोषम् । यस्मिन् प्रक्षिप्ते समो भागहारो भवति सा चारोपणा अकृत्स्नभागहरणादकृत्स्नेति व्यवहर्तव्या । यथा केनापि पृष्टम्-विंशिका स्थापना पाक्षिकी चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते-त्रयोदशभिर्मासैः । तथाहि-षण्णां मासानां मानमशीतं दिवसशतमित्यशीतं शतं ध्रियते १८० । ततो विंशतिकायाः स्थापनाया विंशतिदिनानि पाक्षिक्याश्चारोपणायाः पञ्चदश दिनानि शोध्यन्ते । शोधिते च शेषं जातं पञ्चचत्वारिंशं शतम् । ततोऽधिकृतया पञ्चदशदिनया आरोपणया

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226