Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 190
________________ इ-जीयकप्पो एषा गाथाऽनियतविषयाऽप्येवं प्रतिनियतविषयत्वेन भाविता निशीथादौ तथादर्शितत्वात् ।।२७२।। अथ श्रीवीरतीर्थे उत्कृष्टा तपोभूमिः षाण्मासिकं तपो भवतिः । ततः परमपि कश्चित् तत्प्रायश्चित्तमापन्नः स्यात्तस्य कथं प्रायश्चित्तं प्रदीयत ? इत्याह जइ छम्मास परेण वि आवन्नो जाव मास असिइसयं । ठवणरुवणाइ ते विहु काउ दिणे दिज्ज छम्मासं ।।२७३ ।। व्याख्या - यदि कश्चित् साधुः षण्मासेभ्यः परतोऽपि सप्तमासादीनि प्रायश्चित्तानि यावदशीतिशतमासरूपमुत्कृष्टं तपोर्हप्रायश्चित्तमापन्नः तदा तान् सर्वानपि मासान् स्थापनारोपणाप्रकारेण दिवसान् कृत्वा षाण्मासिकमेवोत्कृष्टं तपस्तस्य दद्यान्नाधिकम् । इयमत्र भावना - मासादारभ्य यावत् षण्मासास्तावत् स्थापनारोपणाव्यतिरेकेणापि सूत्रेणैव प्रायश्चित्तं दीयते । ततः पराणि तु यानि सप्तमासादीनि प्रायश्चित्तानि यावदशीतिशतमासरूपमुत्कृष्टं प्रायश्चित्तं तानि अपरिणामकस्याऽतिपरिणामकस्य वाऽगीतार्थस्य स्थापनारोपणाप्रकारेणैव दीयन्ते । तयोः प्रत्ययहेतुत्वात्तत्प्रकारस्याऽन्यथादोषसम्भवाच्च । गीतार्थस्य अगीतार्थस्य वा परिणामकस्य पुनर्न स्थापनारोपणाप्रकारेण तानि दीयन्ते, तयोरन्यथा दानेऽपि प्रत्ययसम्भवात् दोषाभावाच्च । स्थापनारोपणाप्रकारश्चायम् - यावन्तो मासा दिवसा प्रतिसेविताः तावन्तः सर्वेऽप्येकत्र स्थाप्यन्ते, स्थापयित्वा च यत् सङ्क्षेपार्हं विंशिकादिकं प्रतिसेवितं तत् स्थाप्यते एषा स्थापना । तदनन्तरं येऽन्ये मासाः प्रतिसेवितास्ते सफलीकर्तव्या इत्येकैकस्मान्मासात् प्रतिसेवनापरिणामानुरूपं स्तोकान् स्तोकतरान् समान् विषमान् वा दिवसान् गृहीत्वैकत्र रोपयति । एषा आरोपणा । एषा चोत्कर्षतः तावत्कर्तव्या यावत् स्थापनया सह संकलय्यमानाः षण्मासाः पूर्यन्ते, नाधिकाः । अनेन हि प्रकारेण प्रायश्चित्तदानेऽतिपरिणामकोऽपरिणामको वा चिन्तयति — सर्वे मासाः सफलीकृता इति शुद्धोऽहमिति । तत्र स्थापनाया आरोपणायाश्च चत्वारि स्थानानि भवन्ति । तद्यथा - प्रथमं स्थानं त्रिंशत्स्थानात्मकम् । द्वितीयं त्रयस्त्रिंशत्स्थानात्मकम् । तृतीयं पञ्चत्रिंशत्स्थानात्मकम्। चतुर्थमेकोनाशीत्यधिकस्थानकशतप्रमाणम् । एतेषु च चतुर्ष्वपि स्थानकेष्विमा जघन्या स्थापनारोपणा ।। ठेवणा वीसिअ पक्खिअ पंचिअ एगाहिआ उ बोधव्वा । आरोवणा वि पक्खिअ पंचिअ तह पंचएगाही ' ।। ( व्य०सू० ३५६, नि०भा० ६४३२) स्थापनायाः प्रथमे स्थाने जघन्या स्थापना विंशिका विंशतिरात्रिंदिवप्रमाणा । द्वितीये पाक्षिकी । तृतीये पञ्चदिवसात्मिका । चतुर्थे एकाहिका । आरोपणापि प्रथमे स्थाने जघन्या पाक्षिकी । द्वितीये पश्चिका पञ्चदिनप्रमाणा । तृतीयेऽपि पञ्चिका । चतुर्थे एकाहिका । आद्येषु च त्रिषु स्थापनारोपणास्थानेषु पञ्चोत्तरा वृद्धिः । चतुर्थे त्वेकोत्तरा वृद्धिः । तथाहि - प्रथमस्थापनास्थानके विंशतिदिनस्थापना १ पञ्चविंशतिदिना २ त्रिंशद्दिना ३ एवं पञ्चकवृद्ध्या तावन्नेयं यावत्पञ्चषष्ट्यधिकशतदिनप्रमाणा त्रिंशत्तमा स्थापना । द्वितीये

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226