________________
जइ - जीयकप्पो भावसंलीनता पुनर्द्विधा-इन्द्रियप्रतिसंलीनता नोइन्द्रियप्रतिसंलीनता च । इन्द्रियप्रतिसंलीनता पञ्चविधा श्रोत्रेन्द्रियादिकेन्द्रियपञ्चकभेदात् । नोइन्द्रियप्रतिसंलीनता च चतुर्विधा क्रोधादिकषायचतुष्कभेदात् । साधुना च द्रव्यतो भावतश्च प्रतिसंलीनेन भाव्यम् , यः पुनः प्रतिसंलीनो न भवति तस्येदं प्रायश्चित्तम् , तद्यथा-द्रव्ये द्रव्यविषये असंलीनस्य स्त्रीनपुंसकसंसक्तवसतौ वसतः चतुर्गुरुका भवन्ति । पुरुषतिर्यग्भिः संसक्तायां पुनर्वसतौ चतुर्लघुकाः । भावे भावविषये घ्राणेन्द्रिये घ्राणेन्द्रियविषये रागतोऽसंलीनस्य गुरुमासः । द्वेषतोऽसंलीनस्य लघुमासः । शेषेषु श्रोत्रेन्द्रियादिषु चतुर्षु विषये रागतोऽसंलीनस्य चतुर्गुरुकाः । एतेष्वेव च द्वेषतोऽसंलीनस्य चतुर्लघुकाः । क्रोधे मानेऽसंलीनस्य चतुर्लघुकाः । मायायां गुरुमासः । लोभे च चतुर्गुरुकाः । गाथायां तु व्यस्तोपन्यासो लाघवार्थः।।२२८-२२९।। एवं संलीनताप्रायश्चित्तमुक्तम् । अथ विनय-स्वाध्याय-प्रायश्चित्तमाह
गुरुवसभभिक्खुखुड्डे अविणय गुरुगाइ जाव लहुमासो ।
सत्तीइ सुत्तपोरिसि अकरणि लहुगो गुरु अत्थे ।।२३०।। व्याख्या-गुरुवृषभभिक्षुक्षुल्लानामविनये चतुर्गुरुकादिलघुमासान्तं प्रायश्चित्तम् । आचार्यस्याविनये चतुर्गुरु । उपाध्यायस्याविनये चतुर्लघुः । भिक्षोर्गुरुमासः । क्षुल्लस्य च लघुमासो भवतीत्यर्थः । शक्तौ सत्यां सूत्रपौरुष्या अकरणे लघुमासः । अर्थपौरुष्या अकरणे गुरुमासः । व्यवहारे त्वित्थम्सुत्तत्थपोरिसीणं अकरणि मासो उ होइ गुरुलहुगो । चाउक्कालं पोरिसिओवायणंतस्स चउलहुगा' ।।
(व्य०सू० १३०) सूत्रार्थपौरुष्योः सूत्रपौरुष्या अर्थपौरुष्या इत्यर्थः । अकरणे यथाक्रमं गुरुमासो लधुमासः । अर्थपौरुषी हि प्रज्ञादिविशिष्टसामग्र्यपेक्षा सूत्रायत्ता च । सूत्रपौरुषी त्वभिनवदीक्षितेनापि जडमतिनापि च यथाशक्ति अवश्यं कर्तव्या । सूत्राभावे सर्वस्याप्यभावाद्, अतः सूत्रपौरुष्या अकरणे मासगुरु । अर्थपौरुष्या अकरणे मासलघु । द्वयोःसूत्रपौरुष्योरकरणे द्वौ लघुमासौ । तिसृणां पौरुषीणामकरणे त्रयो लघुमासा इति सामर्थ्यात् प्रतिपत्तव्यम् । धाउक्काल' मित्यादि । चतुष्कालं दिवारात्रिगतप्रथमचरमप्रहररूपेषु चतुर्षु कालेषु सूत्रार्थपौरुषीरवपातयतो भंशयतोऽकुर्वत इत्यर्थः । चतुर्लघुकाश्चत्वारो लघुमासाः ।।२३०।।
अणसणमाई नवविहसेसतवोऽकरणि लहुग सत्तीए ।
वयभगे लहु सहसप्पमायओ गुरुग दपेणं ।।२३१।। व्याख्या-अनशनादेर्नवविधस्य शेषतपसः शक्तौ सत्यामकरणे चतुर्लघुका जीतेनेति सम्भाव्यते । तथा सहसा प्रमादेन वा व्रतभङ्गे लघुमासः । दर्पण अकुशलपरिणामेन व्रतभङ्गे चतुर्गुरुकाः । व्रतभङ्गे चातिक्रमव्यतिक्रमातीचारानाचाररूपाः चत्वारो भेदा भवन्ति । एतेषां चाधाकर्म प्रतीत्येदं व्याख्यानम्आहाकम्मामंतण पडिसुणमाणे अतिक्कमो होइ । पयभेआइ वइक्कम गहिए तइएयरो गिलिए' ।।
(व्य०सू० ३३, पिं०नि० १८२)