________________
जई - जीयकप्पो
कोऽपि श्राद्धो नालप्रतिबद्धो ज्ञातिप्रतिबद्धो गुणानुरक्तो वा आधाकर्म निष्पाद्य निमन्त्रयति । यथा भगवन् ! युष्मन्निमित्तमस्मद्गृहे सिद्धमन्नमास्ते इति समागत्य प्रतिगृह्यतामित्यादि, तत्प्रतिशृण्वति अभ्युपगच्छति अतिक्रमो नाम दोषो भवति । स च तावत् यावदुपयोगपरिसमाप्तिः । किमुक्तं भवति यत्प्रतिशृणोति, प्रतिश्रवणानन्तरं चोत्तिष्ठति, पात्राण्युद्गृह्णाति, उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति । एष समस्तोऽपि व्यापारोऽतिक्रमः । उपयोगपरिसमाप्त्यनन्तरं च यदाधाकर्मग्रहणाय पदभेदं करोति, आदिशब्दात् मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणाय पात्रं प्रसारयति, न चाद्यापि प्रतिगृह्णाति । एष सर्वोऽपि व्यापारो व्यतिक्रमः । गहिए तइए' त्ति । आधाकर्मणि गृहीते, उपलक्षणमेतत् यावद्वसतौ समानीते गुरुसमक्षमालोचित्ते, भोजनार्थमुपस्थापिते, मुखे प्रक्षिप्यमाणेऽपि च यावन्नाद्यापि गिलति तावत्तृतीयोऽतीचारलक्षणो दोषः । गिलिते त्वाधाकर्मण्यनाचारः । एवमन्यत्राप्यतिक्रमादिस्वरूपमवगन्तव्यम् । एतेषु चेदं प्रायश्चित्तम्, तद्यथा - अतिक्रमे व्यतिक्रमे अतीचारे च मासगुरुः यथोत्तरं तपः कालविशेषितः । अनाचारे चतुर्गुरु । एते च मासगुर्वादयः प्रायश्चित्तभेदा अतिक्रमादिष्वविशोधिकोट्यां द्रष्टव्याः । विशोधिकोट्यां त्वेत एव मासादयो लघुकाः ।। २३१ ।। अथाष्टम्यादिपर्वदिनेषु यथोक्ततपोऽकरणे प्रायश्चित्तमाह
चउछट्टट्ठमऽकरणे अट्टमिपक्खचउमासवरिसेसु । लहु गुरु लहुगा गुरुगा अवंदणे चेइसाधूणं । । २३२।।
(व्य० सू० १३३) व्याख्या–अत्र यथासङ्ख्येन पदयोजना । सा चैवम् - अष्टम्यां चतुर्थस्याकरणे मासलघु । पाक्षिके चतुर्दश्यां चतुर्थस्याकरणे मासगुरु । चतुर्मासके षष्ठस्याकरणे चत्वारो लघुमासाः । सांवत्सरिके अष्टमस्याकरणे चत्वारो गुरुमासाः । तथा एतेषु चाष्टम्यादिषु दिवसेषु चैत्यानां जिनबिम्बानामन्यवसतिगतसुसाधूनां चावन्दने प्रत्येकं मासलघु ।। २३२ ।। अथ प्रत्याख्यानाऽकरण - भङ्गप्रायश्चित्तमाहपाणासंवरि भिन्नं नवकाराईण अगहणे भंगे ।
लहु तदहिअ तंमत्तं अभिक्खभंगे दसहिं सपयं ।। २३३ ।।
व्याख्या -पानस्याऽसंवरणे विकालवेलायां पानकाहारस्याऽप्रत्याख्याने भिन्नमासः । साधुभिः किल भुक्तानन्तरं सर्वाहारसंवरणं कार्यम् । अत एव साधवस्तृतीयपौरुष्यां स्वाध्यायकरणकाले त्रिविधाहारं प्रत्याख्यान्ति, विकाले च पानकाहारमपि । यस्तु विकालेऽपि सर्वसंवरणं न करोति तस्य सर्वाहारासंवरणे लघुमासो भवतीत्युपलक्षणत्वादवसेयम् । तथा नमस्कारसहितपौरुष्यादिप्रत्याख्यानानामग्रहणे गृहीतानां वा भङ्गे लघुमासः । केचित् पुनर्नमस्कारसहितपौरुषीसार्द्धपौरुषीपुरिमार्द्धापार्द्धद्व्यासनैकासननिर्विकृतिकाचाम्लक्षपणानां भङ्गे तदधिकप्रत्याख्यानदानमाहुः । इतरे तु यदेवैकासनादि भज्यते तदेवैकासनादि दीयते इति भणन्ति । तथा