________________
जइ - जीयकप्पो अभीक्ष्णं पुनः पुनः प्रत्याख्यानभङ्गे दशभिर्वाराभिः स्वपदं पाराञ्चिकं भवति । तथाहि-सकृत्प्रत्याख्यानभङ्गे मासलघु । द्वितीयवारभङ्गे मासगुरु । तृतीयवारे चतुर्लघु । चतुर्थवारे चतुर्गुरु । पञ्चमवारे षड्लघु । षष्ठवारे षड्गुरु । सप्तमवारे छेदः । अष्टमवारे मूलम् । नवमवारे अनवस्थाप्यम् । दशमवारे पाराञ्चिकम् । प्रत्याख्यानभने चाज्ञातिक्रमादयो दोषाः । इमे चापरेअपच्चयो अवन्नो पसंगदोसो अ अदढया धम्मे । माया य मुसावाओ होइ पइन्नाइलोवो अ' ।।
___ (नि०भा० ३९८८) यथा एष नमस्कारसहितादिप्रत्याख्यानं भनक्ति तथा मूलगुणप्रत्याख्यानमपि भनक्ति । एवमगीतार्थगृहस्थानामप्रत्ययं जनयति । आत्मनः साधूनां चावर्णवादं जनयति । प्रत्याख्यानभङ्गप्रसङ्गेन मूलगुणानपि भनक्ति । प्रत्याख्यानधर्मे श्रमणधर्मे वा अदृढत्वं कृतं भवति । अन्यां प्रतिज्ञा प्रतिपद्यते अन्यच्च करोतीति माया । अन्यद्भाषते अन्यत्करोतीति मृषावादः । पौरुष्यादिप्रतिज्ञापदलोपः कृतो भवति । प्रत्याख्यानं भनक्तीति प्रद्विष्टा देवता छलनादि कुर्यात् । कारणैः पुनः प्रत्याख्यानभङ्गेऽपि न दोषः ।।२३३।। एवं तपआचारातिचारप्रायश्चित्तं प्ररूपितम् । अथ वीर्याचाराऽतिचारप्रायश्चित्तमभिधित्सुराह
नाणे सणचरणे तवे अ छत्तीसएसु भेएसु ।
विरिअं न हावइज्जा सट्ठाणारुवण हावते ।।२३४।। व्याख्या-ज्ञानाचारोऽष्टविधः । दर्शनाचारोऽष्टविधः । चारित्राचारोऽष्टविधः । तपआचारो द्वादशविधः । एवमेतेषु षट्त्रिंशत्सु भेदेषु आचारविशेषेसु वीर्यं शक्तिं न हापयेत् न गोपयेत् । वीर्यं हापयतश्च स्वस्थानारोपणा स्वस्थानप्रायश्चित्तं भवति । ज्ञानाचारं हापयतस्तदेव प्रायश्चित्तं यत् ज्ञानाचारेऽभिहितम् । एवं शेषेष्वपि स्वस्थानप्रायश्चित्तमवगन्तव्यम्। एषा स्वस्थानारोपणा ।।२३४।। अथ वीर्याचारादिविषयं जीत–व्यवहारगतं प्रायश्चित्तमुपदर्शयति
ठवणमणापुच्छाए निविसणे विरिअगृहणाए अ।
जीएणं गुरुमासो सेसगमायासु चउगुरुगा ।।२३५।। व्याख्या-स्थापनमिति । स्थापनाकुलानि दानश्राद्धयथाभद्रकश्राद्धादीनां गृहाणि, एतेषु ह्येकेनैवाचार्यादिप्रायोग्यग्राहिणा सङ्घाटकेन प्रवेष्टव्यं नान्यरित्यवगणय्य लुब्धत्वाद् गुरोरनापृच्छया तेभ्यः प्रायोग्यभक्ताद्यादाय निविशतः परिभुआनस्य वीर्यगृहनायां च वीर्यं तपोऽनुष्ठानादिपराक्रमस्तस्य गृहनायां सतोऽपि मायया गोपनायां जीतेन जीतव्यवहारेण गुरुमासः । श्रुतव्यवहारेण पुनरेको जीतोक्तो द्वितीयो मायानिष्पन्नः, ततो गुरुमासद्वयं दीयत इति भावः । शेषकमाया पूर्वोक्तमायातोऽन्या यथासिआ एगयओ लद्धं विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा विवन्नं विरसमाहरे' ।।