Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 171
________________ जइ - जीयकप्पो अभीक्ष्णं पुनः पुनः प्रत्याख्यानभङ्गे दशभिर्वाराभिः स्वपदं पाराञ्चिकं भवति । तथाहि-सकृत्प्रत्याख्यानभङ्गे मासलघु । द्वितीयवारभङ्गे मासगुरु । तृतीयवारे चतुर्लघु । चतुर्थवारे चतुर्गुरु । पञ्चमवारे षड्लघु । षष्ठवारे षड्गुरु । सप्तमवारे छेदः । अष्टमवारे मूलम् । नवमवारे अनवस्थाप्यम् । दशमवारे पाराञ्चिकम् । प्रत्याख्यानभने चाज्ञातिक्रमादयो दोषाः । इमे चापरेअपच्चयो अवन्नो पसंगदोसो अ अदढया धम्मे । माया य मुसावाओ होइ पइन्नाइलोवो अ' ।। ___ (नि०भा० ३९८८) यथा एष नमस्कारसहितादिप्रत्याख्यानं भनक्ति तथा मूलगुणप्रत्याख्यानमपि भनक्ति । एवमगीतार्थगृहस्थानामप्रत्ययं जनयति । आत्मनः साधूनां चावर्णवादं जनयति । प्रत्याख्यानभङ्गप्रसङ्गेन मूलगुणानपि भनक्ति । प्रत्याख्यानधर्मे श्रमणधर्मे वा अदृढत्वं कृतं भवति । अन्यां प्रतिज्ञा प्रतिपद्यते अन्यच्च करोतीति माया । अन्यद्भाषते अन्यत्करोतीति मृषावादः । पौरुष्यादिप्रतिज्ञापदलोपः कृतो भवति । प्रत्याख्यानं भनक्तीति प्रद्विष्टा देवता छलनादि कुर्यात् । कारणैः पुनः प्रत्याख्यानभङ्गेऽपि न दोषः ।।२३३।। एवं तपआचारातिचारप्रायश्चित्तं प्ररूपितम् । अथ वीर्याचाराऽतिचारप्रायश्चित्तमभिधित्सुराह नाणे सणचरणे तवे अ छत्तीसएसु भेएसु । विरिअं न हावइज्जा सट्ठाणारुवण हावते ।।२३४।। व्याख्या-ज्ञानाचारोऽष्टविधः । दर्शनाचारोऽष्टविधः । चारित्राचारोऽष्टविधः । तपआचारो द्वादशविधः । एवमेतेषु षट्त्रिंशत्सु भेदेषु आचारविशेषेसु वीर्यं शक्तिं न हापयेत् न गोपयेत् । वीर्यं हापयतश्च स्वस्थानारोपणा स्वस्थानप्रायश्चित्तं भवति । ज्ञानाचारं हापयतस्तदेव प्रायश्चित्तं यत् ज्ञानाचारेऽभिहितम् । एवं शेषेष्वपि स्वस्थानप्रायश्चित्तमवगन्तव्यम्। एषा स्वस्थानारोपणा ।।२३४।। अथ वीर्याचारादिविषयं जीत–व्यवहारगतं प्रायश्चित्तमुपदर्शयति ठवणमणापुच्छाए निविसणे विरिअगृहणाए अ। जीएणं गुरुमासो सेसगमायासु चउगुरुगा ।।२३५।। व्याख्या-स्थापनमिति । स्थापनाकुलानि दानश्राद्धयथाभद्रकश्राद्धादीनां गृहाणि, एतेषु ह्येकेनैवाचार्यादिप्रायोग्यग्राहिणा सङ्घाटकेन प्रवेष्टव्यं नान्यरित्यवगणय्य लुब्धत्वाद् गुरोरनापृच्छया तेभ्यः प्रायोग्यभक्ताद्यादाय निविशतः परिभुआनस्य वीर्यगृहनायां च वीर्यं तपोऽनुष्ठानादिपराक्रमस्तस्य गृहनायां सतोऽपि मायया गोपनायां जीतेन जीतव्यवहारेण गुरुमासः । श्रुतव्यवहारेण पुनरेको जीतोक्तो द्वितीयो मायानिष्पन्नः, ततो गुरुमासद्वयं दीयत इति भावः । शेषकमाया पूर्वोक्तमायातोऽन्या यथासिआ एगयओ लद्धं विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा विवन्नं विरसमाहरे' ।।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226