Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 182
________________ जइ - जीयकप्पो छिन्नमडम्बादिकं स्तोकलोकाश्रयं सार्द्धयोजनं यावदविद्यमानवसत्प्रदेशं यत्र सम्पूर्णा भिक्षा न लभ्यते । कालो दुर्भिक्षादिर्यत्र सर्वथाऽन्नादिर्न प्राप्यते । तं प्रतिसेवेत । अयमाशयः-साधुना महति क्षेत्रे काले च गत्वा स्थेयम्। आकुट्टिकादिभिर्हि छिन्नमडम्बादिकं क्षेत्रं दुष्कालं च प्रतिसेवमानः संयमात्मविराधने प्राप्नुवन् (? प्राप्नोति) । भावं च हृष्टग्लानत्वादिकं प्रतिसेवते । आकुट्टिकादिभिरहिताऽन्नौषधादिकं भुक्त्वा ग्लानत्वादिकं भावमुत्पादयेदित्यर्थः ।।२५१।। उक्ताः स्वरूपतः प्रतिसेवनाः । तासां प्रायश्चित्तमाह जं जीअदाणमुत्तं एअं पायं पमायसहिअस्स । इत्तो च्चिअ ठाणंतरमेगं वड्डिज्ज दप्पवओ ।।२५२।। व्याख्या-यज्जीतदानं जीतव्यवहारे तपोदानमुक्तम् । एतत्सर्वं प्रायः प्रमादसहितस्य प्रमादप्रतिसेवनाप्राग्गाथाविवरणव्याख्यातद्रव्यादिसेविनो भणिताः । इत एव प्रमादप्रतिसेवकप्रायश्चित्तादेकं स्थानान्तरं वर्धयत् दर्पवतः । अयमर्थः- प्रमादप्रतिसेवनया भिन्नमास-लघुमास-गुरुमास-चतुर्लघु-चतुर्गुरु-षड्लघु-षड्गुरूणामापत्तौ निर्विकृतिकपुरिमा?कासनाचामाम्लचतुर्थषष्ठाष्टमाख्यं तपो दीयते । दर्पप्रतिसेवनाकारिणस्तु भिन्नमासादीनामापत्तौ सत्यां स्थानान्तरवृद्धिः कार्या । निर्विकृतिकं मुक्त्वा पुरिमार्द्धादीनि दशमान्तानि देयानीति ।।२५२।। आउट्टिआइ ठाणंतरं व सठाणमेव वा दिज्जा । कप्पेण पडिक्कमणं तदुभयमहवा विणिद्दिष्टुं ।।२५३ ।। व्याख्या-आकुट्टिकाप्रतिसेवायां साधोः स्थानान्तरं वा दद्यात् । दर्पप्रतिसेवाकारिणः सकाशात् स्थानवृद्ध्याधिक तपःस्थानं वितरेत् । दर्पप्रतिसेविनो हि भिन्नमासाद्यापत्तौ पुरिमा दीनि दशमान्तानि दीयन्ते । अस्य त्वेकासनादीनि द्वादशान्तानि देयानि । स्वस्थानमेव' वा दद्यात् । इहापत्तिरूपं प्रायश्चित्तं स्वस्थानमुच्यते । यथाऽऽकुट्टिकया पञ्चेन्द्रियवधे मूलम् । अन्यत्रापि चाकुट्टिकया यत्रापराधे यद् भिन्नमासादिकमुक्तं तत्तत्र स्वस्थानं तदेवाकुट्टिकाप्रतिसेविनो दद्यादित्यर्थः । कल्पेन कल्पप्रतिसेवनया प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तम् । अथवा तदुभयम् आलोचनामिथ्यादुष्कृतोभयरूपं प्रायश्चित्तं विनिर्दिष्टम् ।।२५३।। इदं चोक्तस्वरूपं प्रायश्चित्तं परिणामानुरूपेणैव दद्यादित्याह आलोअणकालंमि वि संकेस-विसोहिभावओ नाउं । हीणं वा अहिअं वा तम्मत्तं वा वि दिज्जाहि ।।२५४ ।। (गु०वि० २/३३४) व्याख्या-आलोचनाकालेऽपि कमप्यपराधविशेषं यः सर्वथा न प्रकाशयति कथयन्नप्यर्द्धकथितं वा करोति स सक्लिष्टपरिणाम इति ज्ञात्वा तस्याधिकमपि दद्यात् । यः पुनः संवेगमुपगतो निन्दागर्हादिभिर्विशुद्धपरिणामः तस्य हीनमपि दद्यात् । यः पुनर्मध्यस्थपरिणामः तस्य तन्मात्रमेव दद्यात् ।।२५४।। A. आकुट्टिकादिभिः अहितकारि

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226