Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 184
________________ जई - जीयकप्पो निविअपुरिमासणंबिल इगबितिचउपंचखमण नवह तवो । सुअववहारुवएसा विभागजो ओहेण चेव ।। २५९।। (सड्डजीयकप्पो १२७) व्याख्या–निर्विकृतिकं १ पुरिमार्द्धम् २ एकासनं ३ आचामाम्लम् ४ एकक्षपणं चतुर्थं ५ द्वे क्षपणे षष्ठं ६ त्रीणि क्षपणानि अष्टमं ७ चतुः क्षपणानि दशमं ८ पञ्च क्षपणानि द्वादशं ९ श्रुतव्यवहारोपदेशादेवं तपो नवधा ओघतो विभागतश्च ग्रीष्मशिशिरवर्षासु दीयत इति नवधा तपोदानश्रुतव्यवहारः ।। २५९। अथ यथोद्देशं निर्देश' इति न्यायात् पूर्वं पक्षत्रयं स्पष्टयन्नाह— गुरु लहु लहुस ति पक्खा पिहो तिहाऽतिगुरु गुरुतरो गुरुओ । लहुतमलहुतरलहुओ लहुसतो लहुसतर लहुसो ।। २६०।। ( गु०वि० २ / २८२, सड्डजीयकप्पो १२८ ) व्याख्या - एष नवविधतपोव्यवहारः संक्षेपतस्त्रिधा - उत्कृष्टो मध्यमो जघन्यश्च । तत्र गुरुतम गुरुतरगुरुरूपभेदत्रयात्मको गुरुपक्ष उत्कृष्टः । लघुतम - लघुतर - लघुरूपभेदत्रयात्मको लघुपक्षो मध्यमः । लघुस्वतमलघुस्वतर- लघुस्वाख्यत्रिभेदो लघुस्वपक्षो जघन्य इति । यदाह— भवविहववहारे सो संखेवेणं तिहा मुणेअव्वो । उक्कोसो मज्झिमगो जहन्नगो चेव तिविहो सो ।। उक्कोसो गुरुपक्खो लहुपक्खो मज्झिमो मुणेअब्बो । लहुसपक्खो जहन्नो तिविगप्पो एस नायव्वो' ।। इदानीं प्रकृतगाथाक्षरार्थः- गुरु १ लघु २ लघुस्वः ३ लघुस्वशब्दश्च लघुकार्थः । स्वशब्दास्याल्पार्थकप्रत्ययार्थत्वादित्येते त्रयः पक्षाः पृथक् प्रत्येकं त्रिधा भवन्ति । त्रैविध्यं च दर्शितमेव ।। २६०।। अथ नवविधापत्तितपोव्यवहारं दर्शयति गुरुलहुअ छपणमासा चउतिगमासा दुमासगुरुमासो । लहुमासभिन्नवीसं पनरसदसपण तिपक्खकमा ।। २६१।। ( गु०वि० २ / २८३, सड्डजीयकप्पो १२९) उक्कोसमज्झहीणा आवत्ती नवति दाण कालतिगे । उक्कोसुक्कोसुक्कोसमज्झ उक्कोसग जहन्ना ।। २६२।। मज्झुक्कोसा मज्झिमगमज्झिमा तहय मज्झिमजहन्ना । जहन्नुक्कोस जहन्नगमज्झा य जहन्नगजहन्ना ।। २६३ ।। (सजीयकप्पो १३०-१३१) व्याख्या - तेषु त्रिषु पक्षेषु गुरुलघुलघुकलक्षणेषु । एता आपत्तय उत्कृष्टमध्यमजघन्यरूपाः क्रमादवगन्तव्याः । तथाहि - गुरुपक्षे गुरुलघु षाण्मासिकपञ्चमासिकरूपा उत्कृष्टापत्तिः । चातुर्मासिकत्रिमासिकरूपा मध्यमा ।

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226