Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 173
________________ जइ - जीयकप्पो न दोषः । तथा वमनमूर्ध्वं विरेचः । विरेचोऽधः श्रावणम्, आदिपदात्तैलादिना गात्राभ्यङ्गः वर्णबलादिनिमित्तं घृतादिस्नेहपानं रूपमेधास्वरमाधुर्यादिनिमित्तं रसायनसेवन, वलिपलितनाशनार्थमौषधकरणं नासाऽर्शःप्रभृतिरोगनाशनार्थं तस्य करणं बस्तिकर्म च । एतेषु वमनविरेचादिषु निष्कारणं कृतेषु चतुर्लघुकाः प्रायश्चित्तम् । इमे च दोषाः । अतीव वमने मरणम्, वमननिरोधे कुष्ठम् , वनिरोधे मरणम्, अतिवेगेनास्थण्डिले छईनं तत्र षट्कायविराधना । यच्चात्मानमग्लानं ग्लानं करोति तन्निष्पन्नं च प्रायश्चित्तम् ।।२३६ ।। तथा सुइमाई इक्किक्का गुरुण सेसाण वंससिंगसुई। गिहिमाइणा तदुत्तरकरणे गुरुगो तहाणाई ।।२३७।। व्याख्या-सूची लोहमयी वस्त्रादिसीवनोपकरणम्, आदिशब्दान्नखहरणी-कर्णशोधनादिकमौपग्रहिकोपकरणम्। एतान्येकैकान्येव गुरूणां भवन्ति । शेषा अपि तैरेव कार्यं कुर्वन्ति । अथवा महान्तं गच्छमाश्रित्य शेषसाधूनामेकैका वंशमयी शृङ्गमयी वा सूची भवति । गृहिणा गृहस्थेनादिशब्दादन्यतीर्थिकन तस्य सूच्यादेरुत्तरकरणे समारचनरूपे कारिते सति गुरुमासः तथा आज्ञादयो दोषाः ।।२३७।। अथ पञ्चकल्यप्रायश्चित्तशोध्यमपराधजातं पादोनगाथाद्वयेनाह साहहिं लेहसालं चिगिच्छचप्पुडिअरक्खडिअखडिअं। सिसुकीलनघरकम्मं कयविक्कयमेसिमेहिं वा ।।२३८।। कंकणिअकंडगाई गणत्तिआहारपोअणाई तहा । कारिते पणकल्लं लहू तदभंग पयधुवणे ।।२३९।। व्याख्या-इदं गाथाद्वयं श्राद्धजीतकल्पसम्बद्धं तेन तत्प्राधान्येन प्रायश्चित्तमत्र निबद्धं प्रस्तुतेप्युपयोगीत्यत्रापि लिखितमतोऽत्र साधुप्राधान्येन प्रदर्श्यते, यथा-यदि साधुभिः श्राद्धो लेखशालां शिशु पाठनरूपां कारयति । चिकित्सां रोगप्रतीकारं । चपुटिकां रक्षाटिकां खटिकां शिशुक्रीडनं गृहकर्म वा धवलनचित्रकरणादि कारयति, तदा साधोरेतानि कुर्वाणस्य प्रत्येकं पञ्चकल्यं भवति । तथा एतेषां गृहस्थानां सम्बन्धिवस्तुनः क्रयविक्रययोः करणे, एतैर्वा गृहस्थैः स्वसम्बन्धिवस्तुक्रयविक्रयविधापने पञ्चकल्यम् । तथा कङ्कणिका कराभरणं कण्डकं वलयम्, आदिशब्दात् आभरणसमारचनादि । तथा गणेत्रिकाहारप्रोतनादि । आदिशब्दादन्यदप्येवंविधं साधुजनानुचितगृहकर्म गृहस्थो यत्र कारयति तत्र साधोः प्रत्येकं पञ्चकल्यं प्रायश्चित्तं भवति । तथा तेन गृहस्थेन गात्राभ्यङ्गविधापने पादधावने च लघुमासः ।।२३८-२३९।। अथ कल्यशोध्यमपराधमाह संसट्ठदाणगहणे कल्लं निज्जूहणा अणुवसते । पडिलेहणकालंमि वि फिडिए कल्लं पमत्तस्स ।।२४० ।।

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226