Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 176
________________ जइ - जीयकप्पो न वा पर्यायच्छेदाद् बिभेति तस्य पर्यायगर्वितस्य । अपिचेति समुच्चये । एतेषामुद्दिष्टानां छेदमापन्नानामपि, आदिशब्दान्मूलानवस्थाप्यपाराञ्चिकानप्यापन्नानाम् । तथा गणाधिपतेः आचार्यस्य, चशब्दात् कुलगणसङ्घाधिपानां च जीतेन जीतव्यवहारमतेन तप एव दीयते । अत्राह-दीयतां नाम छेदाद्यश्रद्धालुप्रभृतीनां छेदापत्तावपि तपः, आचार्यादीनां तु कथम् ? इति । अत्रोच्यते-अनेकविधाः शिष्याः परिणामकाः अपरिणामकाः अतिपरिणामकाः शैक्षाः उच्छृङ्खलाश्चेति । तत्रोत्सर्गे उत्सर्गमपवादे चापवादं यथा भणितं ये श्रद्दधत्याचरन्ति च ते परिणामकाः। ये पुनरुत्सर्गमव श्रद्दधत्याचरन्ति च, अपवादं तु न श्रद्दधति नाचरन्ति वा ते अपरिणामकाः । ये चापवादमेवाचरन्ति नोत्सर्ग ते अतिपरिणामकाः । शैक्षा नवदीक्षिताः । उच्छृङ्खला उल्लुण्ठाः । एषामपरिणामकादीनामिमे मा निन्दनीया लाघवभाजो भूवन्नित्याचार्यादीनामपि तप एव दीयते न छेदादय इति ।।२४५।। उक्तं वीर्याचारातिचारप्रायश्चित्तं तदुक्तौ च समर्थितं पञ्चविधाचारातिचारप्रायश्चित्तम् । अथ विशेषाभिधानाय प्रस्तावनामाह एअं पुण सव्वं चिअ पायं सामन्नओ विणिदिलु । दाणं विभागओ पुण दवाइविसेसिअं नेअं ।।२४६ ।। व्याख्या- एतत् पुनरालोचनादि प्रायश्चित्तदानं सर्वमेव प्रायो बाहुल्येन सामान्यतो द्रव्याद्यविभागतो विनिर्दिष्टम् । विभागतः पुनर्द्रव्यादीनि द्रव्य-क्षेत्र-काल-भाव-पुरुष-प्रतिसेवनाद्यपेक्षाविशेषितं हीनमधिकं वा यथोक्तमेव वा जीतदानं दातव्यमिति ज्ञेयम् । उक्तं चदवं खित्तं कालं भावं पुरिसपडिसेवणाओ अ । नाउ मिश्र चिय दिज्जा तमत्तं हीणमहिअं वा' ।। मिअं चिय' त्ति । मितमेव द्रव्यक्षेत्रादिप्रमाणेनैव । कोऽर्थः ? द्रव्यादिषु हीनेषु हीनम्, अधिकेष्वधिकम्, अहीनोत्कृष्टेषु तन्मानं जीतोक्तसममेव दद्यात् ।। २४६।। तत्र द्रव्याभिधित्सयाह आहाराई दवं बलिअं सुलहं च नाउ अहिअंपि । दिज्जाहि दुब्बलं दुल्लहं च नाऊण हीणपि ।।२४७।। (गु०वि० २/२७७) व्याख्या-आहारादिकं द्रव्यं यत्र देशे बलिकं सुलभं च । यथा अनूपदेशे शालिकूरो बलिकः स्वभावेनैव सुलभश्च तज्ज्ञात्वाऽधिकमपि जीतोक्ताद् बहुतरमपि दद्यात् । यत्र पुनर्वल्लचणककञ्जिकादिको रूक्षाहारो दुर्बलो दुर्लभश्च तं ज्ञात्वा हीनमपि जीतोक्तादल्पमपि दद्यादित्यर्थः ।।२४७।। अथ क्षेत्रकालाभिधानार्थमाह लुक्खं सीअल साहारणं च खित्तमहिअंपि सीमि । लुक्खंमि अ हीणतरं एवं काले वि तिविहमि ।।२४८।। (गु०वि० २/२७८)

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226