________________
जइ - जीयकप्पो न वा पर्यायच्छेदाद् बिभेति तस्य पर्यायगर्वितस्य । अपिचेति समुच्चये । एतेषामुद्दिष्टानां छेदमापन्नानामपि, आदिशब्दान्मूलानवस्थाप्यपाराञ्चिकानप्यापन्नानाम् । तथा गणाधिपतेः आचार्यस्य, चशब्दात् कुलगणसङ्घाधिपानां च जीतेन जीतव्यवहारमतेन तप एव दीयते । अत्राह-दीयतां नाम छेदाद्यश्रद्धालुप्रभृतीनां छेदापत्तावपि तपः, आचार्यादीनां तु कथम् ? इति । अत्रोच्यते-अनेकविधाः शिष्याः परिणामकाः अपरिणामकाः अतिपरिणामकाः शैक्षाः उच्छृङ्खलाश्चेति । तत्रोत्सर्गे उत्सर्गमपवादे चापवादं यथा भणितं ये श्रद्दधत्याचरन्ति च ते परिणामकाः। ये पुनरुत्सर्गमव श्रद्दधत्याचरन्ति च, अपवादं तु न श्रद्दधति नाचरन्ति वा ते अपरिणामकाः । ये चापवादमेवाचरन्ति नोत्सर्ग ते अतिपरिणामकाः । शैक्षा नवदीक्षिताः । उच्छृङ्खला उल्लुण्ठाः । एषामपरिणामकादीनामिमे मा निन्दनीया लाघवभाजो भूवन्नित्याचार्यादीनामपि तप एव दीयते न छेदादय इति ।।२४५।। उक्तं वीर्याचारातिचारप्रायश्चित्तं तदुक्तौ च समर्थितं पञ्चविधाचारातिचारप्रायश्चित्तम् । अथ विशेषाभिधानाय प्रस्तावनामाह
एअं पुण सव्वं चिअ पायं सामन्नओ विणिदिलु ।
दाणं विभागओ पुण दवाइविसेसिअं नेअं ।।२४६ ।। व्याख्या- एतत् पुनरालोचनादि प्रायश्चित्तदानं सर्वमेव प्रायो बाहुल्येन सामान्यतो द्रव्याद्यविभागतो विनिर्दिष्टम् । विभागतः पुनर्द्रव्यादीनि द्रव्य-क्षेत्र-काल-भाव-पुरुष-प्रतिसेवनाद्यपेक्षाविशेषितं हीनमधिकं वा यथोक्तमेव वा जीतदानं दातव्यमिति ज्ञेयम् । उक्तं चदवं खित्तं कालं भावं पुरिसपडिसेवणाओ अ । नाउ मिश्र चिय दिज्जा तमत्तं हीणमहिअं वा' ।। मिअं चिय' त्ति । मितमेव द्रव्यक्षेत्रादिप्रमाणेनैव । कोऽर्थः ? द्रव्यादिषु हीनेषु हीनम्, अधिकेष्वधिकम्, अहीनोत्कृष्टेषु तन्मानं जीतोक्तसममेव दद्यात् ।। २४६।। तत्र द्रव्याभिधित्सयाह
आहाराई दवं बलिअं सुलहं च नाउ अहिअंपि । दिज्जाहि दुब्बलं दुल्लहं च नाऊण हीणपि ।।२४७।।
(गु०वि० २/२७७) व्याख्या-आहारादिकं द्रव्यं यत्र देशे बलिकं सुलभं च । यथा अनूपदेशे शालिकूरो बलिकः स्वभावेनैव सुलभश्च तज्ज्ञात्वाऽधिकमपि जीतोक्ताद् बहुतरमपि दद्यात् । यत्र पुनर्वल्लचणककञ्जिकादिको रूक्षाहारो दुर्बलो दुर्लभश्च तं ज्ञात्वा हीनमपि जीतोक्तादल्पमपि दद्यादित्यर्थः ।।२४७।। अथ क्षेत्रकालाभिधानार्थमाह
लुक्खं सीअल साहारणं च खित्तमहिअंपि सीमि । लुक्खंमि अ हीणतरं एवं काले वि तिविहमि ।।२४८।।
(गु०वि० २/२७८)