________________
जइ - जीयकप्पो अथ कर्मवशावधावित-प्रत्यावृत्तसाधुविषयप्रायश्चित्ताभिधित्सया गाथायुगलमाह
संविग्गो साविक्खो कम्मवसोहाविओ निरईआरो । तद्दिणनिअत्तसुद्धो न तस्स उवही वि उवहम्मे ।।२४३ ।। संविग्गे अमणुन्ने एवं वसि आगए नवरि लहुगो । पासत्थाइसु लहुगा सच्छंदि गुरुगा उवहिघाओ ।।२४४ ।।
(व्य०सू० ३६३५ तः ३६५१) व्याख्या-कश्चित्साधुः कर्मवशात् चारित्रमोहनीयकर्मोदयवशादवधावितो दुस्सहपरीषहपराजिततया गणादपगतस्ततः केनाप्यनुशिष्टः स्वयं वा प्रत्यावृत्तपरिणामः पुनः संविग्नः सआतसवेगः समुत्पन्नज्ञानदर्शनचारित्रसमाराधनोद्यम इत्यर्थः । ततः सापेक्षः संयमसापेक्षचित्तो निरतीचारः सर्वातीचारविवर्जितो यदि तस्मिन्नेव दिने निवृत्तः पुनः स्वगणमध्ये समायातः, तदा शुद्धः प्रायश्चित्तभाग न भवति उपधिरपि तस्य नोपहन्यते साधुनामकल्प्यो न स्यात् । अथवा संविग्नेषु संयमोद्यतेषु साधुषु अन्यसाम्भोगिकेषु मध्येऽसावुषित्वा आगतस्तदाप्येवम् अमुना प्रकारेण तस्योपधि!पहन्यते, परं तस्य लघुमासः प्रायश्चित्तं भवति अथ पार्श्वस्थादिषूषित्वा समागतस्तदा तस्य चतुर्लधुकाः । अथ स्वच्छन्देषु यथाछन्देषु उषित्वा यद्यागतस्तदा तस्य चतुर्गुरुकाः पार्श्वस्थादिकेषु च वसतः साधोरुपधिघातोऽपि भवति । अथ संविग्नादिभिरनुशिष्टः साधुर्निवृत्तः परं तद्दिने एव गच्छे न मिलितो न च वजिका सङ्घडिकादिषु प्रतिबद्धः, ततः चिरेणापि मिलितस्य तस्योपधिर्नोपहन्यते । अथ पार्श्वस्थादीन् परिहरन्नेकाकी रात्रौ यदि सुप्तः तदा तस्य मासलघु प्रायश्चित्तम् उपधिश्चोपहन्यते । ततः परं द्वितीयतृतीयादिदिनेष्वेकाकिनो वसतश्चतुर्लघु । यच्च सूत्रार्थपौरुष्यकरणे सूत्रार्थनाशे दर्शनचरणविराधने च प्रायश्चित्तं तत् सर्वमापद्यते । यश्चावधावनानुप्रेक्षी आकारेङ्गितादिभिरवगम्यते, तस्य रतिवाक्यचूलाभणितान्यऽष्टादशस्थानानि हयरश्मिगजाङ्कुशपोतपताकाभूतानि यदि पुराप्यवगतानि तदा स्मारयन्ति वृषभसाधवः । अथ न तान्यवगतानि तस्य तदा सूत्रार्थतः कथयन्ति ।।२४३-२४४।। अथ छेदादिशोध्यमतीचारं कृतवतामपि केषाञ्चित्तप एव इति तान् ज्ञापयितुमाह
छेआइमसद्दहओ मिउणो परिआयगविअस्स वि अ।
छेआईए वि तवो जीएण गणाहिवइणो अ ।।२४५।। व्याख्या-यः छेदं न श्रद्दधाति भणति च धृतपर्याय दिनपञ्चकादौ छिन्ने किं मदीयं छिन्नं ? सम्पूर्णकरचरणकर्णनासिकाद्यवयव एव तावदहमस्मि'; तस्य छेदायश्रद्धानपरस्य । मिउणो' त्ति । यः छिद्यमानो व्रतपययिन सन्तप्यते । यथा कष्टं मम पर्यायः छिन्न' इति । यद्वा अन्येषां लघूनामप्यहमतिलघीयान् जात' इति तस्य मृदोः । यश्च पर्यायगर्वितो दीर्घपर्यायत्वात् छिन्नेऽपि पयिऽन्येभ्योऽभ्यधिक पर्याय एव नाऽवमपर्यायः,