________________
जइ- जीयकप्पो
व्याख्या-संसृष्टमुच्छिष्टं भक्तादि तस्य दाने ग्रहणे च साधोर्घट्टयित्वा-त्वयैवं पुनर्न कार्यमित्युक्त्वा कल्यं प्रायश्चित्तं गुरुदत्ते । तथा अनुपशान्तस्य तस्माद्दोषादनिवृत्तस्य दायकस्य ग्राहकस्य च नि!हणा गणान् निष्कासनं भवति । तथा प्रतिलेखनाकालेऽपि स्फिटिते प्रमादपरवशतया अतिक्रान्ते प्रमत्तस्य साधोः कल्यं भवति ।।२४०।। पुनः (पञ्च)कल्याणकप्रायश्चित्तशोध्यातिचारस्थानानि गाथायुगलेनाह
दप्पेणं पंचिंदियवोरमणे संकिलिट्ठकम्मे अ। दीहद्धाणासेविसु गिलाणकणावसाणे अ ।।२४१।। सबोवहिकपमि अ पुरि मत्तापेहणे अ चरिमाए ।
चउमासवरिससब्बुवहिधुवणअते अ पणकल्लं ।।२४२।। व्याख्या-दर्पो धावनवल्गनडेपनादिः प्राग्व्याख्यातः । तं कुर्वता पञ्चेन्द्रियव्यपरोपणं विघातनं कृतं स्यात् तस्मिन् दर्पण पञ्चेन्द्रियव्यपरोपणे । संक्लिष्टं कर्म यदङ्गादानस्य-लिङ्गस्य करपरिमर्दनेन शुक्रपुद्गलनिष्कासनं करकर्मेति यदुच्यते, चकाराल्लिङ्गस्य स्नेहादिना मृक्षणादिकं च तस्मिन् सङ्क्लिष्टकर्मणि । दीहद्धाणासेविसु' त्ति । षष्ठीसप्तम्योरर्थं प्रत्यभेदः, ततो दीर्घाध्वनि यदाधाकर्म अध्वकल्पादिकं च शुष्ककदलीफलादिधरणात्मकं तदाऽऽसेविनां ग्लानकल्पावसाने च । ग्लानकल्पो ग्लानाचारः आधाकर्मिक्वाथपथ्याधुपजीवनं सन्निधीभूतचूर्णाद्यासेवनं वा तस्य ग्लानकल्पस्यावसाने नीरोगित्वे जाते सतीत्यर्थः । चः समुच्चये । सर्वोपधिकल्पे च वर्षारम्भं विनापि सर्वोपधेः कल्पे क्षालने कृते सति पुरि मत्तापेहणे अचरिमाए' सूचकत्वात् सूत्रस्य' पुरि' त्ति पौरुष्यां घरिमाए' त्ति । चरमभागोनायां प्रथमपादोनप्रहरे सतीत्यर्थः । मात्राप्रेक्षणे मात्रकस्य भिक्षापात्रकस्य प्रमादेनाप्रतिलेखने, चातुर्मासिके वार्षिक पर्युषणाख्ये पर्वणि शुद्धौ प्रक्रान्तायां वर्षारम्भकालेऽपि सर्वोपधिधावनिकाप्रान्ते च पञ्चकल्यं सर्वेष्वप्येतेषु पदेषु शोधकं पञ्चकल्याणकं प्रायश्चित्तं भवतीत्यर्थः । अत्राह-दर्पतः पञ्चेन्द्रियवधादौ दीयतां नाम प्रायश्चित्तम्, चातुर्मासिकवार्षिकषु चातिचाराभावे कथं प्रायश्चित्तम् ? इति । अत्रोच्यते-प्रादोषिकार्द्धरात्रिक-वैरात्रिक-प्राभातिकाख्यकालानां कदाचिदग्रहणम्, सूत्रार्थपौरुष्योत्वऽकरणम् अप्रतिलेखितादि चेत्यादीन् सूक्ष्मातिचारान् कृतानपि यतो न जानाति न वा स्मरति । ततश्चातुर्मासिकवार्षिकषु निरतिचारस्यापि प्रायश्चित्तं भवति । ननु वर्षारम्भकाले सर्वोपधिधावनं सिद्धान्तोक्तमेव । ततः कथं तदा सर्वोपधिधावने प्रायश्चित्तम् ? उच्यते-तदापि सिद्धान्तोक्तविधिना यतनापुरस्सरमपि धाव्यमानेषु वस्त्रेषु कथञ्चिद्वायुविराधनारूपः षट्पदिकोपमादिरूपो वाऽसंयमोऽपि सम्भाव्यते, ततः तच्छुद्ध्यर्थं तत्र प्रायश्चित्तम् । ओघनिर्युक्तौ तु तत्रैककल्यमेवोक्तमस्ति । चकारद्वयं चात्र गाथायां समुच्चयार्थं 'पुरि मत्तापेहणे अ चरिमाए' इत्यत्र तु यश्चकारः सोऽनुक्तसमुच्चयार्थः । तेन यद्युपोषितः कश्चिच्चरमायां पौरुष्यामपि पात्रकानि न प्रतिलेखयति, आस्तां प्रथमायां तदा तस्यैककल्याणकं दीयत इति समुच्चीयते ।।२४१-२४२।।