________________
जइ - जीयकप्पो न दोषः । तथा वमनमूर्ध्वं विरेचः । विरेचोऽधः श्रावणम्, आदिपदात्तैलादिना गात्राभ्यङ्गः वर्णबलादिनिमित्तं घृतादिस्नेहपानं रूपमेधास्वरमाधुर्यादिनिमित्तं रसायनसेवन, वलिपलितनाशनार्थमौषधकरणं नासाऽर्शःप्रभृतिरोगनाशनार्थं तस्य करणं बस्तिकर्म च । एतेषु वमनविरेचादिषु निष्कारणं कृतेषु चतुर्लघुकाः प्रायश्चित्तम् । इमे च दोषाः । अतीव वमने मरणम्, वमननिरोधे कुष्ठम् , वनिरोधे मरणम्, अतिवेगेनास्थण्डिले छईनं तत्र षट्कायविराधना । यच्चात्मानमग्लानं ग्लानं करोति तन्निष्पन्नं च प्रायश्चित्तम् ।।२३६ ।। तथा
सुइमाई इक्किक्का गुरुण सेसाण वंससिंगसुई।
गिहिमाइणा तदुत्तरकरणे गुरुगो तहाणाई ।।२३७।। व्याख्या-सूची लोहमयी वस्त्रादिसीवनोपकरणम्, आदिशब्दान्नखहरणी-कर्णशोधनादिकमौपग्रहिकोपकरणम्। एतान्येकैकान्येव गुरूणां भवन्ति । शेषा अपि तैरेव कार्यं कुर्वन्ति । अथवा महान्तं गच्छमाश्रित्य शेषसाधूनामेकैका वंशमयी शृङ्गमयी वा सूची भवति । गृहिणा गृहस्थेनादिशब्दादन्यतीर्थिकन तस्य सूच्यादेरुत्तरकरणे समारचनरूपे कारिते सति गुरुमासः तथा आज्ञादयो दोषाः ।।२३७।। अथ पञ्चकल्यप्रायश्चित्तशोध्यमपराधजातं पादोनगाथाद्वयेनाह
साहहिं लेहसालं चिगिच्छचप्पुडिअरक्खडिअखडिअं। सिसुकीलनघरकम्मं कयविक्कयमेसिमेहिं वा ।।२३८।। कंकणिअकंडगाई गणत्तिआहारपोअणाई तहा ।
कारिते पणकल्लं लहू तदभंग पयधुवणे ।।२३९।। व्याख्या-इदं गाथाद्वयं श्राद्धजीतकल्पसम्बद्धं तेन तत्प्राधान्येन प्रायश्चित्तमत्र निबद्धं प्रस्तुतेप्युपयोगीत्यत्रापि लिखितमतोऽत्र साधुप्राधान्येन प्रदर्श्यते, यथा-यदि साधुभिः श्राद्धो लेखशालां शिशु पाठनरूपां कारयति । चिकित्सां रोगप्रतीकारं । चपुटिकां रक्षाटिकां खटिकां शिशुक्रीडनं गृहकर्म वा धवलनचित्रकरणादि कारयति, तदा साधोरेतानि कुर्वाणस्य प्रत्येकं पञ्चकल्यं भवति । तथा एतेषां गृहस्थानां सम्बन्धिवस्तुनः क्रयविक्रययोः करणे, एतैर्वा गृहस्थैः स्वसम्बन्धिवस्तुक्रयविक्रयविधापने पञ्चकल्यम् । तथा कङ्कणिका कराभरणं कण्डकं वलयम्, आदिशब्दात् आभरणसमारचनादि । तथा गणेत्रिकाहारप्रोतनादि । आदिशब्दादन्यदप्येवंविधं साधुजनानुचितगृहकर्म गृहस्थो यत्र कारयति तत्र साधोः प्रत्येकं पञ्चकल्यं प्रायश्चित्तं भवति । तथा तेन गृहस्थेन गात्राभ्यङ्गविधापने पादधावने च लघुमासः ।।२३८-२३९।। अथ कल्यशोध्यमपराधमाह
संसट्ठदाणगहणे कल्लं निज्जूहणा अणुवसते । पडिलेहणकालंमि वि फिडिए कल्लं पमत्तस्स ।।२४० ।।