________________
जइ - जीयकप्पो व्याख्या-रूक्षं क्षेत्रं स्नेहरहितं वातिलं वा । शीतलं पुनः स्निग्धमनूपं च । साधारणं मध्यस्थम् अस्निग्धरूक्षम्। इह शीते स्निग्धक्षेत्रे जीतोक्तादधिकमपि दद्यात् । रूक्षे च हीनतरं जीतोक्तादल्पतरम् । अत्र चकारोऽनुक्तसमुच्चये । तेन साधारणे क्षेत्रे साधारणं जीतोक्तमात्रमेवाहीनाधिकं दद्यादिति ज्ञेयम् । कालेऽपि त्रिविधे वर्षाशिशिरग्रीष्मरूपे । एवम् अमुनवोक्तप्रकारेण जीतोक्ताधिकसमहीनानि तपांसि यथासङ्ख्यं दद्यादिति सामान्यातिदेशः ।।२४८।। विशेषतः कालं प्रपञ्चयन्नाह
गिम्हसिसिरवासासुं दिज्जट्ठमदसमबारसंताई । नाउं विहिणा नवविहसुअववहारोवएसेणं ।।२४९ ।।
(गु०वि० २/२७९) व्याख्या-अत्र कालस्त्रिविधो ग्रीष्मशिशिरवर्षालक्षणः । स सामान्यतो द्विधा-स्निग्धो रूक्षश्च । स च द्विरूपोप्युत्कृष्टमध्यमजघन्यभेदात् त्रिधा । तत्रोत्कृष्टस्निग्धो अतिशीतः । मध्यमस्निग्धो नातिशीतः । जघन्यस्निग्धः स्तोकशीतः । उत्कृष्टरूक्षो अत्युष्णः । मध्यमरूक्षो नात्युष्णः । जघन्यरूक्षो कवोष्णः । एवंरूपे ग्रीष्मशिशिरवर्षाख्ये कालत्रये नवविधश्रुतव्यवहारोपदेशेन । नवविधो नवविधतपोदानलक्षणश्चासौ श्रुतव्यवहारोपदेशश्च तेन नवविधश्रुतव्यवहारोपदेशेन विधिना वैपरीत्याभावेन ज्ञात्वा अष्टमदशमद्वादशान्तानि तपांसि दद्यात् । अयं भावार्थ:-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि । षष्ठाष्टमदशमानि मध्यमानि । अष्टमदशमद्वादशान्युत्कृष्टानि । उक्तं चगिम्हासु चउत्थं दिज्जा छट्टगं च हिमागमे । वासासु अट्ठमं दिज्जा तवो एस जहन्नगो ।। गिम्हासु छट्टगं दिज्जा अट्ठमं च हिमागमे । वासासु दसमं दिज्जा एस मज्झिमगो तवो ।। गिम्हासु अट्ठमं दिज्जा दसमं च हिमागमे । वासासु दुवालसमं एस उक्कोसओ तवो' ।। एष नवविधतपोदानलक्षणः श्रुतव्यवहारोपदेशः । एष च नवविधश्रुतव्यवहारोपदेशो द्विधा-ओघतो विभागतश्च । तद्विचारश्च बहुविस्तर इति कृत्वाऽग्रे दर्शयिष्यते ग्रन्थकृता स्वयमेव ।।२४९।। उक्तं कालविषयं प्रायश्चित्तम्, साम्प्रतं भावविषयमाह
हट्ठगिलाणा भामि दिज्ज हट्टरस न उ गिलाणस्स ।
जावइअं वा विसहइ तं दिज्ज सहिज्ज वा कालं ।।२५०।। व्याख्या-भावे भावतः कश्चिदालोचनाग्राही हृष्टो नीरोगः समर्थः, कश्चिद् ग्लानो रोगी शक्तिविकल इत्येतद्विचार्य दिन हट्ठस्स न उ गिलाणस्स' तुशब्दस्य विशेषणार्थत्वात् । हृष्टस्य जीतोक्तादधिकमपि दद्यात्, ग्लानस्य तु न दद्यात् जीतोक्तादूनं वा दद्यात् । यावन्मात्रं वा विषहते कर्तुं शक्नोति तत् प्रायश्चित्तं तावन्मात्रं दद्यात् । कालं वा सहेत यावता प्रगुणो भवति तावत्प्रतीक्षेत, रोगनिवृत्तौ समर्थस्य दद्यादित्यर्थः । उक्तो भावविषयो दानविधिः ।