Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 174
________________ जइ- जीयकप्पो व्याख्या-संसृष्टमुच्छिष्टं भक्तादि तस्य दाने ग्रहणे च साधोर्घट्टयित्वा-त्वयैवं पुनर्न कार्यमित्युक्त्वा कल्यं प्रायश्चित्तं गुरुदत्ते । तथा अनुपशान्तस्य तस्माद्दोषादनिवृत्तस्य दायकस्य ग्राहकस्य च नि!हणा गणान् निष्कासनं भवति । तथा प्रतिलेखनाकालेऽपि स्फिटिते प्रमादपरवशतया अतिक्रान्ते प्रमत्तस्य साधोः कल्यं भवति ।।२४०।। पुनः (पञ्च)कल्याणकप्रायश्चित्तशोध्यातिचारस्थानानि गाथायुगलेनाह दप्पेणं पंचिंदियवोरमणे संकिलिट्ठकम्मे अ। दीहद्धाणासेविसु गिलाणकणावसाणे अ ।।२४१।। सबोवहिकपमि अ पुरि मत्तापेहणे अ चरिमाए । चउमासवरिससब्बुवहिधुवणअते अ पणकल्लं ।।२४२।। व्याख्या-दर्पो धावनवल्गनडेपनादिः प्राग्व्याख्यातः । तं कुर्वता पञ्चेन्द्रियव्यपरोपणं विघातनं कृतं स्यात् तस्मिन् दर्पण पञ्चेन्द्रियव्यपरोपणे । संक्लिष्टं कर्म यदङ्गादानस्य-लिङ्गस्य करपरिमर्दनेन शुक्रपुद्गलनिष्कासनं करकर्मेति यदुच्यते, चकाराल्लिङ्गस्य स्नेहादिना मृक्षणादिकं च तस्मिन् सङ्क्लिष्टकर्मणि । दीहद्धाणासेविसु' त्ति । षष्ठीसप्तम्योरर्थं प्रत्यभेदः, ततो दीर्घाध्वनि यदाधाकर्म अध्वकल्पादिकं च शुष्ककदलीफलादिधरणात्मकं तदाऽऽसेविनां ग्लानकल्पावसाने च । ग्लानकल्पो ग्लानाचारः आधाकर्मिक्वाथपथ्याधुपजीवनं सन्निधीभूतचूर्णाद्यासेवनं वा तस्य ग्लानकल्पस्यावसाने नीरोगित्वे जाते सतीत्यर्थः । चः समुच्चये । सर्वोपधिकल्पे च वर्षारम्भं विनापि सर्वोपधेः कल्पे क्षालने कृते सति पुरि मत्तापेहणे अचरिमाए' सूचकत्वात् सूत्रस्य' पुरि' त्ति पौरुष्यां घरिमाए' त्ति । चरमभागोनायां प्रथमपादोनप्रहरे सतीत्यर्थः । मात्राप्रेक्षणे मात्रकस्य भिक्षापात्रकस्य प्रमादेनाप्रतिलेखने, चातुर्मासिके वार्षिक पर्युषणाख्ये पर्वणि शुद्धौ प्रक्रान्तायां वर्षारम्भकालेऽपि सर्वोपधिधावनिकाप्रान्ते च पञ्चकल्यं सर्वेष्वप्येतेषु पदेषु शोधकं पञ्चकल्याणकं प्रायश्चित्तं भवतीत्यर्थः । अत्राह-दर्पतः पञ्चेन्द्रियवधादौ दीयतां नाम प्रायश्चित्तम्, चातुर्मासिकवार्षिकषु चातिचाराभावे कथं प्रायश्चित्तम् ? इति । अत्रोच्यते-प्रादोषिकार्द्धरात्रिक-वैरात्रिक-प्राभातिकाख्यकालानां कदाचिदग्रहणम्, सूत्रार्थपौरुष्योत्वऽकरणम् अप्रतिलेखितादि चेत्यादीन् सूक्ष्मातिचारान् कृतानपि यतो न जानाति न वा स्मरति । ततश्चातुर्मासिकवार्षिकषु निरतिचारस्यापि प्रायश्चित्तं भवति । ननु वर्षारम्भकाले सर्वोपधिधावनं सिद्धान्तोक्तमेव । ततः कथं तदा सर्वोपधिधावने प्रायश्चित्तम् ? उच्यते-तदापि सिद्धान्तोक्तविधिना यतनापुरस्सरमपि धाव्यमानेषु वस्त्रेषु कथञ्चिद्वायुविराधनारूपः षट्पदिकोपमादिरूपो वाऽसंयमोऽपि सम्भाव्यते, ततः तच्छुद्ध्यर्थं तत्र प्रायश्चित्तम् । ओघनिर्युक्तौ तु तत्रैककल्यमेवोक्तमस्ति । चकारद्वयं चात्र गाथायां समुच्चयार्थं 'पुरि मत्तापेहणे अ चरिमाए' इत्यत्र तु यश्चकारः सोऽनुक्तसमुच्चयार्थः । तेन यद्युपोषितः कश्चिच्चरमायां पौरुष्यामपि पात्रकानि न प्रतिलेखयति, आस्तां प्रथमायां तदा तस्यैककल्याणकं दीयत इति समुच्चीयते ।।२४१-२४२।।

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226