________________
जइ - जीयकप्पो एवमाचार्येण सामान्यतः तयोरनुशिष्टिर्दातव्या नत्वेकमेव कञ्चन विशेष्य भणनीयम् ।।६०।। यत आह
आयरिओ एगं न भणे अह एगं निवारि मासिअलहुअं। रागद्दोसविमुक्को सीअघरसमो अआयरिओ ।।६१।।
(बृ०क० २७१६, नि०भा० २७९४) व्याख्या-आचार्यो नैकमधिकरणकारिणं भणति अनुशास्ति । अथाऽऽचार्य एकमेव निवारयति अनुशास्ति, न द्वितीयं ततो मासिकलघुकमापद्यते । असमाचारीनिष्पन्नमिति भावः । तस्मादाचार्यो रागद्वेषविमुक्तः शीतगृहसमो भवेत् । शीतगृहं नाम वर्द्धकिरत्ननिर्मितं चक्रवर्त्तिगृहम् । तच्च वर्षासु निर्वातप्रवातम् , शीतकाले सोष्म, ग्रीष्मकाले शीतलम् । यथा तच्चक्रवर्तिनः सर्वत॒क्षमं तथा द्रमकादेरपि प्राकृतपुरुषस्य तत्सर्वत॒क्षममेव भवति । एवमाचार्यैरपि निर्विशेषैभवितव्यम् । अथ विशेषं करोति, तत इमे दोषाः । आचार्य आत्मीयोऽयमिति बुद्ध्या अमुंवारयति, मां तु परबुद्ध्या पश्यन्न वारयति । एवं पक्षरागेण क्रियमाणेनाऽननुशिष्यमाणः साधुर्बाह्यभावं गच्छति । यद्वा-सोऽननुशिष्यमाणो गाढतरमधिकरणं कुर्यात् । अथवा तमाचार्यं परिस्फुटमेव ब्रूयात्-त्वं मामेवैकं बाह्यतया प्रेक्षसे, ततश्चात्मानमुद्बध्य यदि मारयति । तत आचार्यस्य पाराञ्चिकम् । अथोन्निष्क्रामति ततो मूलम् । तस्माद् द्वावपि समदृशाऽनुशासनीयौ अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् । अथैक उपशान्तो न द्वितीयस्तेन चोपशान्तेन गत्वा स स्वापराधप्रतिपत्तिपुरःसरं क्षामितः परमसौ नोपशाम्यति । आहकथमेतदवगम्यते यथा नोपशान्त इति । उच्यते-यदा वन्द्यमानोऽपि वन्दनकं न प्रतीच्छति, यदि वा अवमरात्निकोऽसौ ततस्तं रत्नाधिकं न वन्दते । आद्रियमाणोऽपि वा नाद्रियते । एवमनुपशान्त उपलक्ष्यते । ततोऽनुपशान्तेऽपि य उपशान्तो भूत्वा आदरम् अभ्युत्थानं वन्दनं सम्भोजनं संवासंच करोति तस्याऽऽराधनाऽस्ति। यस्त्वेतानि न करोति अनुपशान्ततया तस्याऽऽराधना नास्ति । उपशमैकनिबन्धनत्वादाराधनायाः ।।६१।। अथोपशान्तमपि अधिकरणं ये पुनरुदीरयन्ति तेषां प्रायश्चित्ताभिधित्सया स्वरूपमाह
खामिअविउसविआई अहिगरणाइंच जे उईरति ।
ते पावा नायबा तेसिं आरोवणा इणमो ।।६२।। व्याख्या-क्षामितानि वचसा मिथ्यादुष्कृतप्रदानेन शमितानि, व्युपशमितानि विविधम् अनेकधा मनसा व्युत्सृष्टानि, क्षामितानि तानि व्युपशमितानि चेति क्षामितव्युपशमितानि । एवंविधान्यधिकरणानि ये भूय उदीरयन्ति, ते पापाः साधुधर्मबाह्या ज्ञातव्यास्तेषां चेयमारोपणा प्रायश्चित्तमित्यर्थः ।।६२।।
उप्पायगउप्पन्ने संबद्धे कक्खडे अ बाहू अ। आपिट्टणा स(सं?)मुच्छण समुघा(ग्घा?)यइवायणा चेव ।।६३ ।।