________________
जइ - जीयकप्पो लहुगो लहुगा गुरुगा छम्मासा हुंति लहुगगुरुगा य ।
छेओ मूलं च तहा अणवठ्ठप्पो अ पारंची ।।६४।। व्याख्या-इदं पूर्वगाथाप्रतिपादितेषु नवसु स्थानकेषु द्वितीयगाथोक्तानि नव प्रायश्चित्तानि क्रमेणावगन्तव्यानि । तद्यथा-दौ साधू पूर्वं कलहं कृतवन्तौ । ततश्च क्षामितव्युत्सृष्टेऽपि तस्मिन्नधिकरणेऽन्यदा तयोरेक एवं भणतिअहं नाम त्वया तदानीमित्थमित्थं च भणितः । एष उत्पादकः उच्यते । अस्य च मासलघु । इतरोऽपि ब्रूते अहमपि त्वया तदानीं किं स्तोकं भणितः ? एवमुक्ते उत्पादकः प्राह-यदि तदानीं त्वमभणिष्यस्तदा किमहमेवमेव त्वाममोक्ष्यम् ? एवमधिकरणमुत्पन्नमुच्यते । तत्र द्वयोरपि चतुर्लघु । सम्बद्धं नाम वचसा परस्परमाक्रोशनं कर्तुमारब्धम् तत्र चतुर्गुरु । कर्कशं नाम तटस्थितैरुपशम्यमानावपि नोपशाम्यतः तदा षड्लघु । बाहु' त्ति । रोषभरपरवशतया बाहूबाहवि युद्धं कर्तुं लग्नौ तत्र षड्गुरु । आपिट्टना नाम एकेनापरो निहत्य पातितस्तत्र छेदः । योऽसौ निहतः सम्मूर्छा यदि प्राप्तस्तदा मूलम् । मारणान्तिकसमुद्घातेन समवहते अनवस्थाप्यम् । अतिपातना मरणं तत्र पाराञ्चिकम् ।।६३-६४।। अत्र प्रकरणे सर्वत्र लघुगुरुप्रायश्चित्तमिति तत्परिज्ञापनोपायमाह
अद्धेण छिन्नसेस पुबद्धेण तु संजु काउं ।
दिज्जाहि लहअदाणं गुरुदाणं तत्तिअं चेव ।।६५।। व्याख्या-इह प्रायश्चित्तानि पञ्चकादीनि षाण्मासिकान्तानि एकादश भवन्ति । तानि च लघुगुरुविवक्षया द्वाविंशतिः स्युः । एतानि चैतद्गाथोक्तप्रकारेणावगन्तव्यानि । यथा दशकस्याच्छिन्नस्य शेषं दिनाः ५, दशकापेक्षया पूर्वस्य पञ्चकाख्यप्रायश्चित्तस्याऽर्द्धन सार्धद्वयरूपेण संयुक्तं कृतं सार्द्धसप्तदिनसङ्ख्यानिष्पन्नं लघुदशकं भवति। एवंविधप्रक्रियया सर्वाण्यपि प्रायश्चित्तानि षाण्मासिकान्तानि लघूनि ज्ञेयानि, पञ्चकस्य तु पूर्वं प्रायश्चित्तं नास्ति, यदर्द्धं तस्यार्कीकृतस्य मध्ये क्षिप्यते, अतोऽस्यार्द्धमेव सार्द्धदिनद्वयरूपं लघुपञ्चकमित्युच्यते । गुरूणि च सर्वाण्यपि यथास्वप्रमाणान्येव । स्थापना चेयम्
।।६५।।
लघु | पञ्चकम् २'/, दशकम् ७, पञ्चदशकम् १२'/, विंशम् १७'।, | पञ्चविंशम् २२'/, निर्वाण्यपि गुरु | " ५ | " १० ॥ १५ ॥ २० ॥ २५ भिन्नमास इत्युच्यन्ते
मासिकम् २७१, द्विमासिकम् ४५ | त्रिमासिकम् ७५ | चतुर्मासिकम् १०५ | पञ्चमासिकम् १३५ | पाण्मासिकम् १६५
गुरु |
"
.
|
"
०० |
" ०००
" ००००
" ०००००
" ००००००
A. अधिकरणोदीरकयोः।
B. मध्यस्थनरैः ।