________________
जइ - जीयकप्पो
कनकरसस्य शाकपत्रैः परित्यागं कुरुथ ? कः पुनरयं द्रमकः ? उच्यते-जहा एगो परिव्वायगो दमगपुरिसं चिंतासोगसागरावगाढं पासइ पुच्छति अ । किमेवं चिंतापरो ? तेण से सम्भावो कहिओ दारिद्दाभिभूओमि 'त्ति। तेण भणिअं इस्सरं तुमं करोमि । जतो भणामि ततो गच्छाहि, जं च भणामि तं सव् कायबं । ताहे ते संबलं धित्तुं पव्वयनिगुंज पविट्ठा । परिवायगेण य भणितो-एस कणगरसो सीयवायातवपरिस्समं अगणतेहिं तिसाखुधावेअणं सहतेहिं बंभयारीहिं अचित्तकंदमूलपत्तपुफफलाहारीहिं समीपत्तपुडेहिं भावओ अरुस्समाणेहिं धित्तव्यो । एस से उवयारो । तेण दमगेण सो कणगरसो उवचारेण गहिओ । तुंबयं भरिअं । ततो निअत्ता तेण परिवायगेण भणिअंसुरुटेण वि तुमे एस सागपत्तेण न छड्डिअब्बो । ततो सो परिवायगो गच्छंतो तं दमगपुरिसं पुणो पुणो भणइ-मम पभावेण इस्सरो भविस्ससि । सो अ पुणो पुणो भण्णमाणो रुट्ठो भणति-जं तुज्झ पसाएण इस्सरत्तं तेण मे न कज्जं, तं कणगरसं सागपत्तेण छड्डेति । ताहे परिवायगेण भणिअं-हा हा ! दुरात्मन् (दुरप्पा ?) ! किमेयं तुमे कयं'जं अज्जिअं समीखल्लएहिं तवनिअमबंभमइएहिं । तं दाणि पेच्छ नाहिसि छड्डुतो सागपत्तेहिं' ।।
(बृ०क० २७१४, नि०भा० २७९२) यदर्जितं शमीसम्बन्धिभिः खल्लकैः पत्रपुटैस्तपोनियमब्रह्मयुक्तैस्तदिदानी शाकपत्रैः परित्यजन् पश्चात् परित्यागकालादूर्ध्वं परितप्यमानो ज्ञास्यसि, यथा-दुष्टं मया कृतं यच्चिरसञ्चितः कनकरसः शाकपत्रैरुत्सिच्य परित्यक्तः । एवं पब्रिाजकेन द्रमक उपालब्धः । एवमाचार्यः तावधिकरणकारिणावुपालभते । आर्याः ! यच्चारित्रं कनकरसस्थानीयं तपोनियमब्रह्मचर्यमयैः शमीखल्लकैरर्जितं परीषहोपसर्गादिश्रममगणयद्भिश्चिरात् कथंकथमपि मीलितं तदिदानी शाकपत्रसदृशैः कषायैः परित्यजन्तः पश्चात् परितप्यमानाः स्वयमेव ज्ञास्यथ, यथा-हा ! बहुकालोपार्जितन संयमकनकरसेन तुम्बकस्थानीयं स्वजीवं बहुपूर्णं कृत्वा पश्चात् कलहायमानैः शाकवृक्षपत्रस्थानीयैः कषायैरुत्सिच्योत्सिच्याऽयमात्मा रिक्तीकृतः शिरस्तुण्डमुण्डनादिश्च प्रव्रज्याप्रयासो मुधैव विहित इति । कषायैः पुनश्चिरसञ्चितस्यापि चारित्रस्य नाशो भवेत् । यदुक्तम्'जं अज्जिअं चरित्तं देसूणाए पुनकोडीए । तं पि कसायितमित्तो नासेति नरो मुहुत्तेणं' ।।
(बृ०क० २७१५, नि०भा० २७९३)