________________
जइ - जीयकप्पो जाया । तओ वेअणट्टो महईए असमाहीए पवट्टमाणो उठ्ठिता तं वणसंडं चूरेइ । बहवे तत्थ वसंता सत्ता घाइआ । जलं च आडोहितेण जलयरा घाइआ । तलागपाली भेइआ । तलागं विणटुं ताहे जलयरा सवे विणट्ठा । एष दृष्टान्तः । अथ अर्थोपनयः-यथा तेषामुपेक्षमाणानां तत् पद्मसरः सर्वेषामप्याश्रयभूतं विनष्टम् , तस्मिँश्च विनश्यमाने तेऽपि विनष्टाः। एवमत्राप्याचार्यादीनामुपेक्षमाणानां महान् दोष उपजायते । यतस्तावधिकरणकारिणावुपेक्षितौ परस्परं मुष्टामुष्टि वा दण्डादण्डि वा युध्येताम् । ततश्च परम्परया राजकुलज्ञाते साते सति, स राजादिः तेषां साधूनां बन्धनं वा ग्रामनगरादेर्निष्कासनं वा कटकम वा कुर्यात् ।।५९।। किं चान्यत्
तावो भेओ अयसो हाणी दंसणचरित्तनाणाणं । साहुपओसो संसारवड्डयो साहिगरणस्स ।।६।।
(बृ०क० २७०८, नि०भा० २७८७) व्याख्या-तापो भेदोऽयशो हानिर्दर्शनज्ञानचारित्राणां तथा साधुप्रद्वेषः संसारवर्द्धनो भवति । एते साधिकरणस्य दोषा भवन्ति । तत्र तापो द्विधा-प्रशस्तोऽप्रशस्तश्च । तत्रातिभणिते सति चिन्तयति धिग् मां येन तदानीं स साधुर्बहुविधैरसभ्याख्यानैरभ्याख्यातः । इत्थमित्थं चाक्रुष्टः । एष प्रशस्तस्तापः । अथ तथाविधं तस्य संमुखं तदानीं न भणितं, ततश्चिन्तयति-हा ! मन्दभाग्यो विस्मरणशीलोऽहं यन्मया तदीयं जात्यादिमर्मनिकुरम्बं न प्रकाशितम्। एषोऽप्रशस्तस्तापः । तथा भेदो जीवितभेदश्चरणभेदो वा स्यात् । कलहं कृत्वा पश्चात्तापतप्तचेतसो विहायसादिमरणमभ्युपगच्छेयुः, उन्निष्क्रमणं वा कुर्युरिति भावः । कलहेन गणभेदो वा भवति । लोकोऽपि ब्रूयाद्-अहो ! अमीषां श्रमणानां बहिः प्रशान्ताकारं रूपं यादृशमवलोक्यते तादृशं शीलं मनःप्रणिधानं नास्ति । यद्वा-लज्जनीयं किमप्यनेन कृतं सम्भाव्यते, येनैवं प्रम्लानवदनो दृश्यते । एवमादिकमयशः समुच्छलति। कलहकरणोत्तरकालमपि कषायकलुषितः पश्चात्तापतप्तमानसो वा यन्न पठति एषा ज्ञानहानिः । साधुप्रद्वेषतः साधर्मिकवात्सल्यं विराधितं स्यात्ततो दर्शनहानिः । यथा यथा च क्रोधादीनां कषायाणां वृद्धिस्तथा तथा चारित्रस्याऽपि हानिः । विशुद्धसंयमस्थानप्रतिपातेनाविशुद्धसंयमस्थानेषु गमनं स्यादित्यर्थः । एतच्च व्यवहारनयेन, निश्चयनयेन पुनः कषायसहितः संयत एव न भवति चारित्रशून्यत्वात् । अकसायं खु चरित्तं कसायसहिओ न संजओ होइ' इति वचनात् । तथा साधूनामुपरि यः प्रद्वेषः तेनाऽसौ संसारं दीर्घतरं करोति । यत एते दोषाः तत उपेक्षा न विधया किन्तु कलहायमानावुपशमयितव्यौ। गुरुभिरुपशमनार्थमित्थमभिधातव्यम्-आर्याः! उपशाम्यतोपशाम्यत। अनुपशान्तानां कुतः संयमः ? कुतो वा स्वाध्यायः ? तस्मादुपशमं कृत्वा स्वाध्यायं कुरुत । किमेवं द्रमकवत्